पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१२क्ष्लो०७-८]
३५५
श्रीमद्भगवद्गीता ।


यथादर्शितविश्वरूपं वा ध्यायन्तश्चिन्तयन्त उपासते समानाकारमविच्छिन्नं चित्तवृत्ति- प्रवाहं संतन्वते समीपवर्तितयाऽऽसते तिष्ठन्ति वा ॥ ६ ॥

 श्री०टी-मद्भक्तानां तु मत्प्रसादादनायासत एव सिद्धिर्भवतीत्याह ये त्विति द्वाभ्याम्-मयि परमेश्वरे सर्वाणि कर्माणि संन्यस्य समर्प्य मत्परा भूत्वा मां ध्याय- न्तोऽनन्येन न विद्यतेऽन्यो भजनीयो यस्मिंस्तेनैवैकान्तभक्तियोगेनोपासत इत्यर्थः ॥ ६ ॥

तेषामहं समुद्वर्ता मृत्युसंसारसागरात् ॥
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७॥

 म०टी० तेषां मय्यावेशितचेतसां मयि यथोक्त आवेशितमेकाग्रतया प्रवेशितं चेतो यैस्तेषामहं सततोपासितो भगवान्मृत्युसंसारसागरान्मृत्युयुक्तो यः संसारो मिथ्याज्ञानतत्कार्यप्रपञ्चः स एव सागर इव दुरुत्तरस्तस्मात्समुद्धर्ता सम्यगनायासेनोदूर्ध्वे सर्वबाधावधिभूते शुद्धे ब्रह्मणि धर्ता धारयिता ज्ञानावष्टम्भदानेन भवामि नचिरात्क्षिप्रमेव तस्मिन्नेव जन्मनि, हे पार्थेति संवोधनमाश्वासार्थम् ॥ ७ ॥

 श्री० टी०-तेषामिति । एवं मयि आवेशितं चेतो यैस्तेषां मृत्युयुक्तात्संसार- सागरादहं सम्यगुद्धर्ताऽचिरेणैव भवामि ॥ ७ ॥

 म० टी०--तदेवमियता प्रबन्धेन सगुणोपासनां स्तुत्वेदा[१] नीं विधत्ते-

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ॥
निवसिष्यसि मय्येव अत ऊर्ध्व न संशयः ॥ ८॥

 मय्येव सगुणे ब्रह्मणि मनः संकल्पविकल्पात्मकमाधत्स्व स्थापय सर्वा मनोवृत्तीर्मद्विषया एव कुरु । एवकारानुषङ्गेण मय्येव [२]बुद्धिमध्यवसायलक्षणां निवेशय, सर्वा बुद्धिवृत्तीर्मद्विषया एव कुरु, विषयान्तरपरित्यागेन सर्वदा मां चिन्तयेत्यर्थः । ततः किं स्यादित्यत आह-निवसिष्यसि निवत्स्यसि लब्धज्ञानः सन्मदात्मना मय्येव शुद्धे ब्रह्मण्येवात ऊर्ध्वमेतदेहान्ते न संशयो नात्र प्रतिबन्धशङ्का कर्तव्येत्यर्थः । एव अत ऊर्ध्वमित्यत्र संध्यभावः श्लोकपूरणार्थः ॥ ८॥

 श्री० टी०-यस्मादेवं तस्मात् -मय्येवेति । मय्येव संकल्पविकल्पात्मकं मन आधत्स्व स्थिरी कुरु । बुद्धिमपि अध्यवसायात्मिकां मय्येव प्रवेशय । एवं कुर्वन्मत्प्रसादेन लब्धज्ञानः सन्नत उर्ध्वं देहान्ते मय्येव निवसिष्यसि निवत्स्यसि मदात्मना वासं करिष्यसि । नात्र संशयः । तथाच श्रुतिः- "देहान्ते [३]देवः परं ब्रह्म तारकं व्याचष्टे " इति ॥ ८॥


  1. क. नी साधनातिरेकं वि।
  2. क. ख. ग. घ. ज. झ. बुद्धि मयव ।
  3. क. ज्ञ. देवस्तारकं परब्रह्म व्या । ख. देवस्तारकं परं ब्रह्म व्या।