पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१३क्ष्लो०१]
३६३
श्रीमद्भगवद्गीता।


 प्रथममध्यमषट्कयोस्तत्त्वंपदार्थावुक्तावुत्तरस्तु षट्को वाक्यार्थनिष्ठः सम्यग्धीप्रधानोऽधुनाऽऽरभ्यते । तत्र----

" तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि"

 इति प्रागुक्तम् । न चाऽऽत्माज्ञानलक्षणान्मृत्योरात्मज्ञानं विनोद्धरणं संभवति । अतो यादृशेनाऽऽत्मज्ञानेन मृत्युसंसारनिवृत्तिर्येन च तत्त्वज्ञानेन युक्ता अद्वेष्टुत्वादिगुणशालिनः संन्यासिनः प्राग्व्याख्यातास्तदात्मतत्त्वज्ञानं वक्तव्यम् । तच्चाद्वितीयेन परमात्मना सह जीवस्याभेदमेव विषयी करोति । तद्भेदभ्रमहेतुकत्वात्सर्वानर्थस्य । तत्र जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानामसंसारिणैकेन परमात्मना कथमभेदः स्यादित्याशङ्कायां संसारस्य भिन्नत्वस्य चाविद्याकल्पितानात्मधर्मत्वान्न जीवस्य संसारित्वं भिन्नत्वं चेति [१] वचनीयम् । तदर्थं देहेन्द्रियान्तःकरणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रमेक एव निर्विकार इति प्रतिपादनाय क्षेत्रक्षेत्रज्ञविवेकः क्रियतेऽस्मिन्नध्याये । तत्र ये द्वे प्रकृती भूम्यादिक्षेत्ररूपतया जीवरूपक्षेत्रज्ञतया चापरपरशब्दवाच्ये सप्त- माध्याये सूचिते तद्विवेकेन तत्त्वं निरूपयिष्यन्-

श्रीभगवानुवाच-  इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ॥  एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

 इदमिन्द्रियान्तःकरणसहितं भोगायतनं शरीरं हे कौन्तेय क्षेत्रमित्यभिधीयते सस्यस्येवास्मिन्नसकृत्कर्मणः फलस्य निर्वृत्तेः । एतद्यो वेत्ति अहं ममेत्यभिमन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीवलवत्तत्फलभोक्तृत्वात् । तद्विदः क्षेत्रक्षेत्रज्ञयोर्विवेकविदः । अत्र चाभिधीयत इति कर्मणि प्रयोगेण क्षेत्रस्य जडत्वात्कर्मत्वं क्षेत्रज्ञशब्दे[२] च द्वितीयां विनैवेतिशब्दमाहरन्स्वप्रकाशत्वात्कर्मत्वाभावमभिप्रैति । तत्रापि क्षेत्र यैः कैश्चिदप्यभिधीयते न तत्र कर्तृगतविशेषापेक्षा । क्षेत्रज्ञं तु कर्मत्वमन्तरेणैव विवेकिन एवाऽऽहुः स्थूलदृशामगोचरत्वादिति कथयितुं विलक्षणवचनव्यक्त्यैकत्र कर्तृपदोपादानेन च निर्दिशति भगवान् ॥ १॥

 श्री० टी०-भक्तानामहमुद्धर्ता संसारादित्यवादि यत् ।
त्रयोदशेऽथ तत्सिध्ध्यै तत्त्वज्ञानमुदीर्यते ॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि ।


  1. ग. घ. छ. ति विवेच ।
  2. ग. ङ. च. छ. ज. 'ब्देन द्वि।