पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
[अ० १३क्ष्लो०१३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


पित्थादिर्य कंचिद्धर्मं स्वात्मानं वा प्रवृत्तिं निमित्तीकृत्य प्रवर्तत इति सोऽपि जातिशब्दः । एवमाकाशशब्दोऽपि तार्किकाणां शब्दाश्रयत्वादिरूपं यं कंचिद्धर्मं पुरस्कृत्य प्रवर्तते । स्वमते तु पृथिव्यादिवदाकाशव्यक्तीनां जन्यानामनेकत्वादाकाशत्वमपि जातिरेवेति सोऽपि जातिशब्दः । आकाशातिरिक्ता च दिङ्नास्त्येव । कालश्च नेश्वरादतिरिच्यते । अतिरेके वा दिक्कालशब्दावप्युपाधिविशेषप्रवृत्तिनिमित्तकाविति जातिशब्दावेव । तस्मात्प्रवृत्तिनिमित्तचातुर्विध्याच्चतुर्विध एव शब्दः । तत्र " न सत्तनासत्' इति जातिनिषेधः क्रियागुणसंबन्धानामपि निषेधोपलक्षणार्थः । “एकमेवाद्वितीयम्" इति जातिनिषेधस्तस्या अनेकव्यक्तिवृत्तेरेकस्मिन्नसंभवात् । “निर्गुणं निष्क्रियं शान्तम्" इति गुणक्रियासंबन्धानां क्रमेण निषेधः। “असङ्गो ह्ययं पुरुषः" इति च । “अथात आदेशो नेति नेति" इति च सर्वनिषेधः । तस्माद्ब्रह्म न केनचिच्छब्देनोच्यत इति युक्तम् । तर्हि कथं प्रवक्ष्यामीत्युक्तं कथं वा " शास्त्रयोनित्वात् " इति सूत्रम् । यथाकथंचिल्लक्षणया शब्देन प्रतिपादनादिति गृहाण । प्रतिपादनप्रकारश्च " आश्चर्यवत्पश्यति कश्चिदेनम् " इत्यत्र व्याख्यातः । विस्तरस्तु भाष्ये द्रष्टव्यः ॥ १२ ॥

 श्री० टी०-एभिः साधनैर्यज्ज्ञेयं तदाह ज्ञेयमिति षड्भिः-~~-यज्ज्ञेयं तत्प्रवक्ष्यामि । श्रोतुरादरसिद्धये ज्ञानफलं दर्शयति—यद्वक्ष्यमाणं ज्ञात्वाऽमृतं मोक्षं प्राप्नोति । किं तत्, अनादिमत्, आदिमन्न भवतीत्यनादिमत् । परं निरतिशयं ब्रह्म । अनादीत्येतावतैव बहुव्रीहिणाऽनादित्वे सिद्धेऽपि पुनर्मद्रूपः प्रयोगश्छान्दसः । यद्वा-अनादीति मत्परमिति च पदद्वयं मम विष्णोः परं निर्विशेषं रूपं ब्रह्मेत्यर्थः । तदेवाऽऽह न सन्न चासदुच्यते । विधिमुखेन प्रमाणस्य विषयः सच्छब्देनोच्यते । निषेधस्य विषयस्त्वसच्छब्देनोच्यते । इदं तु तदुभयविलक्षणमविषयत्वादित्यर्थः ॥ १२ ॥

 म०टी०-एवं निरुपाधिकस्य ब्रह्मणः सच्छन्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां नासदित्यनेनापास्तायामपि विस्तरेण तदाशङ्कानिवृत्त्यर्थं सर्वप्राणिकरणोपाधिद्वारेण चेतनक्षेत्रज्ञरूपतया तदस्तित्वं प्रतिपादयन्नाह-

सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् ॥
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

 सर्वतः सर्वेषु देहेषु पाणयः पादाश्वाचेतनाः स्वस्वव्यापारेषु प्रवर्तनीया यस्य चेतनस्य क्षेत्रज्ञस्य तत्सर्वतःपाणिपाद ज्ञेयं ब्रह्म । सर्वाचेतनप्रवृत्तीनां चेतनाधिष्ठानपूर्वकत्वात्तस्मिन्क्षेत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतनवर्गप्रवृत्तिहेतौ नास्ति नास्तिताशङ्केत्यर्थः । एवं सर्वतोऽक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि सन्ति तत्सर्वतोक्षिशिरोमुखम् । एवं सर्वतः श्रुतयः श्रवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्ति