बहिरन्तश्च भूतानामचरं चरमेव च ॥ |
म०टी०-भूतानां भवनधर्मणां सर्वेषां कार्याणां कल्पितानामकल्पितमधिष्ठानमेकमेव बहिरन्तश्च रज्जुरिव स्वकल्पितानां सर्पधारादीनां सर्वात्मना व्यापकमित्यर्थः । अत एवाचरं स्थावरं चरं च जङ्गमं भूतजातं तदेवाधिष्ठानात्मकत्वात् । कल्पितानां न ततः किंचिव्द्यतिरिच्यत इत्यर्थः । एवं सर्वात्मकत्वेऽपि सूक्ष्मत्वाद्रूपादिहीनत्वात्तदविज्ञेयमिदमेवमिति स्पष्टज्ञानाहं न भवति । अत एवाऽऽत्मज्ञानसाधनशून्यानां वर्षसहस्त्रकोट्याऽप्यप्राप्यत्वादूरस्थं च योजनलक्षकोट्यन्तरितमिव तत् । ज्ञानसाधनसंपन्नानां तु अन्तिके च तदत्यव्यवहितमेवाऽऽत्मत्वात् । " दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् " इत्यादिश्रुतिभ्यः ॥ १५ ॥
श्री०. टी०.-किं च-बहिरिति । भूतानां चराचराणां स्वकार्याणां बहिश्चान्तश्च तदेव सुवर्णमिव कटककुण्डलादीनाम् [१] , जलतरङ्गाणामन्तर्बहिश्च जलमिव । अचरं स्थावरं चरं जङ्गमं भूतजातं तदेव कारणात्मकत्वात्कार्यस्य । एवमा सूक्ष्मत्वाद्रूपादिहीनत्वात्तदविज्ञेयमिदं तदिति स्पष्ट ज्ञानाहं न भवति । अत एवाविदुषां योजनलक्षान्तरितमिव दूरस्थं च सविकारायाः प्रकृतेः परत्वात् । विदुषां पुनः प्रत्यगात्मत्वादन्तिके च तन्नित्यं संनिहितम् । तथाच मन्त्रः-
"तदेनति तन्नैजति तद्दूरे तद्वन्तिके। |
एजति चलति नैजति न चलति । तत्, उ, अन्तिक इति च्छेदः ॥ १५ ॥
म०टी०-यदुक्तमेकमेव सर्वमावृत्य तिष्ठतीति तद्विवृणोति प्रतिदेहमात्मभेदवा- दिनां निरासाय-
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ॥ |
भूतेषु सर्वप्राणिषु अविभक्तमभिन्नमेकमेव तत्, न तु प्रतिदेहं भिन्नं व्योमवत्सर्वव्यापकत्वात् । तथाऽपि देहतादात्म्येन प्रतीयमानत्वात्प्रतिदेहं विभक्तमिव च स्थितम् । औपाधिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्यर्थः । ननु भवतु क्षेत्रज्ञः सर्वव्यापक एकः, ब्रह्म तु जगत्कारणं ततो भिन्नमेवेति नेत्याह भूतभर्तृ च भूतानि सर्वाणि स्थितिकाले बिभर्तीति तथा प्रलयकाले असिष्णु ग्रसनशीलमुत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं सर्वस्य । यथा रज्ज्वादिः सर्पादेर्मायाकल्पितस्य । तस्माद्य-
- ↑ ख. ग. घ. ङ. च. छ. ज. झ. भ. 'म ।