पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
[अ० १३क्ष्लो०२०-२१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म०टी०-विकाराणां प्रकृतिसंभवत्वं विवेचयन्पुरुषस्य संसारहेतुत्वं दर्शयति-

कार्य[१]करणकर्तृत्वे हेतुः प्रकृतिरुच्यते ॥
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥२०॥

 कार्यं शरीरं करणानीन्द्रियाणि तत्स्थानि त्रयोदश देहारम्भकाणि भूतानि विषयाश्चेह कार्यग्रहणेन गृह्यन्ते । गुणाश्च सुखदुःखमोहात्मकाः करणाश्रयत्वात्करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वे तदाकारपरिणामे हेतुः कारणं प्रकृतिरुच्यते महर्षिभिः । कार्यकारणेति दीर्घपाठेऽपि स एवार्थः । एवं प्रकृतेः संसारकारणत्वं व्याख्याय पुरुषस्यापि यादृशं तत्तदाह-पुरुषः क्षेत्रज्ञः परा प्रकृतिरिति प्राद्व्याख्यातः । स सुखदुःखानां सुखदुःखमोहानां भोग्यानां सर्वेषामपि भोक्तृत्वे वृत्त्युपरक्तोपलम्मे हेतुरुच्यते ॥ २० ॥

 श्री०टी०-विकाराणां प्रकृतिसंभवत्वं दर्शयन्पुरुषस्य संसारहेतुत्वं दर्शयति- कार्यकारणेति । कार्यं शरीरं कारणानि सुखदुःखादिसाधनानीन्द्रियाणि तेषां कर्तृ. त्वे तदाकारपरिणामे प्रकृतिर्हेतुरुच्यते कपिलादिभिः । पुरुषो जीवस्तत्कृतसुखदुःखानां भोक्तृत्वे हेतुरुच्यते। अयं भावः-यद्यप्यचेतनायाः प्रकृतेः स्वतः कर्तृत्वं न संभवति तथा पुरुषस्याप्यविकारिणो भोक्तृत्वं न संभवति तथाऽपि कर्तृत्वं नाम क्रियानिर्वर्तकत्वम् । [२]तत्त्वचेतनस्यापि चेतनादृष्टवशात्संभवति । यथा वह्वेरूप्रज्वलनं वायोस्तिर्यग्गमनं वत्सादृष्टवशात्स्तन्यपयसः क्षरणमित्यादि । अतः पुरुषसंनिधानाप्रकृतेः कर्तृत्वमुच्यते । भोक्तृत्वं च सुखदुःखसंवेदनम् । तच्चेतनधर्म एवेति प्रकृतिसंनिधानात्पुरुषस्य भोक्तृत्वमुच्यत इति ॥ २० ॥

 म०टी०-यत्पुरुषस्य सुखदुःखभोक्तृत्वं संसारित्वमित्युक्तं तस्य किं निमित्तमित्युच्यते-

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ॥
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

 प्रकृतिर्माया तां मिथ्यैव तादात्म्येनोपगतः प्रकृतिस्थो हि एव पुरुषो भुङ्क्त उपलभते प्रकृतिजान्गुणान् । अतः प्रकृतिजगुणोपलम्भहेतुषु सदसद्योनिजन्मसु सद्योनयो देवाद्यास्तेषु हि सात्त्विकमिष्टं फलं भुज्यते । असद्योनयः पश्चाद्यास्तेषु हि तामसमनिष्टं फलं मुज्यते । सदसद्योनयो धर्माधर्ममिश्रत्वाद्बाह्मणाद्या मनुष्यास्तेषु हि राजसं मिश्रं फलं भुज्यते । अतस्तत्रास्य पुरुषस्य गुणसङ्गः सत्त्वरजस्तमोगुणात्मक-


  • श्रीधरटीकामूले कारणेत्येव पाठः ।

  1. क, ख. व, घ, ङ, च, छ. ज. झ. भ. र्यकार ।
  2. क. तचाचे।