पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१क्ष्लो०१०-११]
३९३
श्रीमद्भगवद्गीता।


 श्री०टी०-सत्त्वादीनामेवं स्वस्वकार्यकरणे सामर्थ्यातिशयमाह-सत्त्वमिति । सत्त्वं सुखे सञ्जयति संश्लेषयति दुःखशोकादिकारणे सत्यपि सुखाभिमुखमेव देहिनं करोतीत्यर्थः । एवं सुखादिकारणे सत्यपि रजः कर्मण्येव सञ्जयति । तमस्तु महत्सङ्गेनोत्पद्यमानमपि ज्ञानमावृत्याऽऽच्छाद्य प्रमादे सञ्जयति महद्भिरूपदिश्यमानस्यार्थस्थानवधाने योजयति । उतापि आलस्यादावपि संयोजयतीत्यर्थः ॥९॥

 म० टी०--उक्त कार्य कदा कुर्वन्ति गुणा इत्युच्यते-

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैवं[१] तमः सत्त्वं रजस्तथा ॥ १०॥

 रजस्तमश्च युगपदुभावपि गुणावभिभूय सत्त्वं भवत्युद्भवति वर्धते यदा तदा स्वकार्यं प्रागुक्तमसाधारण्येन करोतीति शेषः । एवं रजोऽपि सत्त्वं तमश्चेति गुणद्वयमभिभूयोद्भवति यदा तदा स्वकार्य प्रागुक्तं करोति । तथा तद्वदेव तमोऽपि सत्त्वं रजश्चेत्युभावपि गुणावभिभूयोद्भवति यदा तदा स्वकार्यं प्रागुक्तं करोतीत्यर्थः ॥ १० ॥

 श्री० टी०- तत्र हेतुमाह-रज इति । रजस्तमश्चेति गुणद्वयमभिभूय तिरस्कृत्य सत्त्वं भवत्यदृष्टवशादुद्भवति । ततः स्वकार्ये सुखज्ञानादौ संयोजयतीत्यर्थः । एवं रजोऽपि सत्त्वं तमश्चेति गुणद्वयमभिभूयोद्भवति । ततः स्वकार्ये तृष्णाकर्मादौ संयोजयति । एवं तमोऽपि सत्त्वं रजश्चाभिभूयोद्भवति । ततश्च स्वकार्ये प्रमादालस्यादौ संयोजयतीत्यर्थः ॥ १० ॥

 म० टी०-इदानीमुद्भूतानां तेषां लिङ्गान्याह त्रिभिः-

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ॥
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११॥

 अस्मिन्नात्मनो भोगायतने देहे सर्वेष्वपि द्वारेषूपलब्धिसाधनेषु श्रोत्रादिकरणेषु यदा प्रकाशो बुद्धिपरिणामविशेषो विषयाकारः स्वविषयावरणविरोधी दीपवत् , तदेव ज्ञानं शब्दादिविष[२]य उपजायते तदाऽनेन शब्दादिविषयज्ञानात्यप्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृद्धमुद्भूतमिति विद्याज्जानीयात् । उतापि सुखादिलिङ्गेनापि जानीयादित्यर्थः ॥ ११॥

 श्री० टी०-इदानीं सत्त्वादीनां वृद्धानां लिङ्गान्याह त्रिभिः-सर्वद्वारेष्विति । अस्मिन्नात्मनो भोगायतने देहे सर्वेष्वपि द्वारेषु श्रोत्रादिषु यदा शब्दादिज्ञाना-

  • श्रीधरटीकामूले तमश्चैवात पाठः।

  1. क, ख, ग, घ, ङ, च. छ. स. भ. श्चैव त ।
  2. च. ज. षयमुप ।