जघन्यगुणवृत्तस्थाः सात्त्विका राजसाश्च भवन्त्यत आह-तामसाः सर्वदा तमःप्रधानाः । इतरेषां कदाचित्तवृत्तस्थत्वेऽपि न तत्प्रधानतेति भावः ॥ १८ ॥
श्री० टी०-इदानी सत्त्वादिवृत्तिशीलानां फलभेदमाह-ऊर्ध्वमिति । सत्त्वस्थाः सत्त्ववृत्तिस्थाः सत्त्ववृत्तिप्रधाना ऊर्ध्वं गच्छन्ति सत्त्वोत्कर्षतारतम्यादुत्तरोत्तरशतगुणानन्दान्मनुष्यगन्धर्वपितृदेवादिलोकान्सत्यलोकपर्यन्तान्प्राप्नुवन्तीत्यर्थः । राजसास्तु तृष्णाद्याकुला मध्ये तिष्ठन्ति मनुष्यलोक एवोत्पद्यन्ते । जघन्यो निकृष्टस्तमोगुणस्तस्य वृत्तिः प्रमादमोहादिस्तत्र स्थिता अधो गच्छन्ति तमोवृत्तितारतम्यात्तामिस्त्रादिषु निरयेषूत्पद्यन्ते ॥ १८॥
म०टी०-अस्मिन्नध्याये वक्तव्यत्वेन प्रस्तुतमर्थत्रयम् । तत्र क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वं के वा गुणाः कथं वा ते बघ्नन्तीत्यर्थद्वयमुक्तम् । अधुना तु गुणेभ्यः कथं मोक्षणं मुक्तस्य च किं लक्षणमिति वक्तव्यमवशिष्यते । तत्र मिथ्याज्ञानात्मकत्वाद्गुणानां सम्यग्ज्ञानात्तेभ्यो मोक्षणमित्याह-
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ॥ गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥
गुणेभ्यः [१]कार्यकारणविषयाकारपरिणतेभ्योऽन्यं कर्तारं यदा द्रष्टा विचारकुशलः सन्नानुपश्यति विचारमनु न पश्यति गुणा एवान्तःकरणबहिष्करणशरीरविषयमावापन्नाः सर्वकर्मणां कर्तार इति पश्यति । गुणेभ्यश्च तत्तदवस्थाविशेषेण परिणतेभ्यः परं गुणतत्कार्यासंस्पृष्टं तद्धासकमादित्यमिव जलतत्कम्पाद्यसंस्पृष्टं निर्विकारं सर्वसाक्षिणं सर्वत्र समं क्षेत्रज्ञमेकं वेत्ति । मद्धावं मद्रूपतां स द्रष्टाऽधिगच्छति ॥ १९ ॥
श्री० टी०---तदेवं प्रकृतिगुणसङ्गकृतं संसारं सप्रपञ्चमुक्त्वेदानी तद्विवेकतो मोक्षं दर्शयति-नान्यमिति । यदा तु द्रष्टा विवेकी भूत्वा बुद्ध्याद्याकारपरिणतेभ्यो गुणेभ्योऽन्यं कर्तारं नानुपश्यति अपि तु गुणा एव कर्माणि कुर्वन्तीति पश्यति । गुणेभ्यश्च परं व्यतिरिक्तं तत्साक्षिणमात्मानं वेत्ति । स तु मद्भावं ब्रह्मत्वमधिगच्छति प्राप्नोति ॥ १९॥
म०टी०-कथमधिगच्छतीत्युच्यते-
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ॥ |
गुणानेतान्मायात्मकांस्त्रीन्सत्त्वरजस्तमोनाम्नो देहसमुद्भवान्देहोत्पत्तिबीजभूतानतीत्य
- ↑ ख. ग. ल. च. छ. र्यकर'।