पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
[अ०१४ क्ष्लो-०२१-२२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


जीवन्नेव तत्त्वज्ञानेन बाधित्वा जन्ममृत्युजरादुःखैर्जन्मना मृत्युना जरया दुःखैश्चाऽऽध्यात्मिकादिभिर्मायामयैर्विमुक्तो जीवन्नेव तत्संबन्धशून्यः सन्विद्वानमृतं मोक्षं मद्भावमश्नुते प्राप्नोति ॥ २० ॥

 श्री० टी०-ततश्च गुणकृतसर्वानर्थनिवृत्त्या कृतार्थो भवतीत्याह-गुणानिति । देहाकारः समुद्भवः परिणामो येषां ते देहसमुद्भवास्तानेतांस्त्रीनपि गुणानतीत्यातिक्रम्य तत्कृतैर्जन्मादिभिर्विमुक्तः सन्नमृतमश्नुते ब्रह्मानन्दं प्राप्नोति ॥ २० ॥

 म० टी०-गुणानेतानतीत्य जीवन्नेवामृतमश्र्नुत इत्येतच्छ्रुत्वा गुणातीतस्य लक्षणं चाऽऽचारं च गुणातीतत्वोपायं च सम्यग्बुभुत्समानः-

अर्जुन उवाच-
 कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ॥
 किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥

 एतान्गुणानतीतो यः स कैलिङ्गैविशिष्टो भवति । यैर्लिङ्गैः स ज्ञातुं शक्यस्तानि मे ब्रूहीत्येकः प्रश्नः । प्रमुत्वाद्धृत्यदुःखं भगवतैव निवारणीयमिति सूचयन्संबोधयति- प्रभो इति । क आचारोऽस्येति किमाचारः । किं यथेष्टचेष्टः किं वा नियन्त्रित इति द्वितीयः प्रश्नः । कथं च केन च प्रकारेणैतांस्त्रीन्गुणानतिवर्ततेऽतिक्रामतीति गुणातीतत्वोपायः क इति तृतीयः प्रश्नः ॥ २१ ॥

 श्री० टी०-गुणानेतानतीत्यामृतमश्नुत इत्येतच्छृत्वा गुणातीतस्य लक्षणमाचारं गुणात्ययोपायं च सम्यम्बुभुत्सुरर्जुन उवाच-कैलिङ्गैरिति। हे प्रभो कैर्लिङ्गैः कीदृशै. रात्मन्युत्पन्नैश्विद्वैर्गुणातीतो देही भवतीतिलक्षणप्रश्नः । क आचारो[१] यस्येति किमाचारः कथं वर्तत इत्यर्थः । कथं च केनोपायेनैतांस्त्रीनपि गुणानतीत्य वर्तते तत्कथयेति ॥२१॥

 म. टी०-स्थितप्रज्ञस्य का भाषेत्यादिना पृष्टमपि प्रजहाति यदा कामानित्यादिना दत्तोत्तरमापि पुनः प्रकारान्तरेण बुभुत्समानः पृच्छतीत्यवधाख. [२]य प्रकारान्तरेण तस्य लक्षणादिकं पञ्चभिः श्लोकैः-

श्रीभगवानुवाच-
 प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ॥
 न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥

 यस्तावत्कैर्लिङ्गैर्युक्तो गुणातीतो भवतीति प्रश्नस्तस्योत्तरं शृणु-प्रकाशं च सत्त्वकार्य प्रवृत्तिं च रजःकार्य मोहं च तमःकार्यम् । उपलक्षणमेतत् । सर्वाण्यपि गुणकार्याणि यथायथं संप्रवृत्तानि स्वसामग्रीवशादुद्भूतानि सन्ति दुःखरू-


  1. ख. ग. घ. छ. ज. रोऽस्य ।
  2. ख. घ. रु. धार्य प्र ।