पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१४ क्ष्लो ०२३]
३९९
श्रीमद्भगवद्गीता।


षाण्यपि दुःखबुद्ध्या यो न द्वेष्टि । तथा विनाशसामग्रीवशान्निवृत्तानि[१] तानि सुखरूपाण्यपि सन्ति सुखबुद्ध्या न काङ्क्षति न कामयते स्वप्नवन्मिथ्यात्वनिश्चयात् । एतादृशद्वेषरागशन्यो यः स गुणातीत उच्यत इति चतुर्थ श्लोकगतेनान्वयः । इदं च स्वात्मप्रत्यक्षं लक्षणं स्वार्थमेव न परार्थम् । न हि स्वाश्रितौ द्वेषतदभावौ रागतदभावौ च परः प्रत्येतुमर्हति ॥ २२॥

 श्री०टी०-स्थितप्रज्ञस्य का भाषेत्यादिना द्वितीयाध्याये पृष्टमपि दत्तोत्तरमपि पुनर्विशेषबुभुत्सया पृच्छतीति ज्ञात्वा प्रकारान्तरेण तस्य लक्षणादिकं श्रीभगवानुवाच प्रकाशं चेत्यादिषभिः । तत्रैकेन लक्षणमाह-प्रकाशं चेति । प्रकाशं च सर्वद्वारेषु देहेऽस्मिन्निति पूर्वोक्तं सत्त्वकार्य प्रवृत्तिं च रजःकार्यं मोहं च तमःकार्यम् । उपलक्षणमेतत् । सत्त्वादीनां सर्वाण्यपि कार्याणि यथायथं संप्रवृत्तानि स्वतः प्राप्तानि सन्ति दुःखबुद्धया यो न द्वेष्टि । निवृत्तानि च सन्ति सुखबुद्धया न काङ्क्षति । गुणातीतः स उच्यत इति चतुर्थेनान्वयः ॥ २२ ॥

 म०टी०-एवं लक्षणमुक्त्वा गुणातीतः किमाचार इति द्वितीयप्रश्नस्य प्रतिवचनमाह त्रिभिः-

उदासीनवदासीनो गुणैर्यो न विचाल्यते ॥ गुणा वर्तन्त +इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३ ॥

 यथोदासीनो द्वयोर्विवदमानयोः कस्यचित्पक्षमभजमानो न रज्यति न वा द्वेष्टि तथाऽयमात्मविद्रागद्वेषशून्यतया स्वस्वरूप एवाऽऽसीनो गुणैः सुखदुःखाद्याकारपरिणतैर्यो न विचाल्यते न प्रच्याव्यते स्वरूपावस्थानात्, किं तु गुणा एवैते देहेन्द्रियविषयाकारपरिणताः परस्परस्मिन्वर्तन्ते । मम त्वादित्यस्येवैतत्सर्वभासकस्य न केनापि भास्यधर्मेण संबन्धः । स्वप्नवन्मायामात्रश्चायं भास्यप्रपञ्चो जडः स्वयंज्योतिःस्वभावस्त्वहं परमार्थसत्यो निर्विकारो द्वैतशून्यश्चेत्येवं निश्चित्य यः स्वरूपेऽवतिष्ठत्यवतिष्ठते । यो नु तिष्ठतीति वा पाठस्तत्र नुः पृथक्कार्यः । नेङ्गते न तु व्याप्रियते कुत्रचित् । गुणातीतः स उच्यत इति तृतीयगतेनान्वयः ॥ २३ ॥

 श्री०टी०--तदेवं स्वसंवेद्यं तस्य लक्षणमुक्त्वा परसंवेद्यं तस्य लक्षणं वक्तुं किमाचार इति द्वितीयप्रश्नस्योत्तरमाह-उदासीनवदिति त्रिभिः-उदासीनवत्साक्षितयाऽऽसीनः स्थितः सन्गुणैर्गुणकार्यैः सुखदुःखादिभिर्यो न विचाल्यते स्वरूपान्न


+ श्रीधरटीकामूल इत्येवेति पाठः ।


  1. ग. व. छ. ज. न. 'नि सु ।