यस्मादहं वास्तवं स्वरूपं तस्मान्मद्भक्तः संसारान्मुच्यत इति भावः । तथा चोक्तं
ब्रह्मणा भगवन्तं श्रीकृष्णं प्रति-
एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः । |
अत्र सर्वोपाधिशून्य आत्मा ब्रह्म त्वमित्यर्थः । शुकेनापि स्तुतिमन्तरेणैवोक्तं-
" सर्वेषामेव वस्तूनां भावार्थो भवति स्थितः । |
सर्वेषामेव कार्यवस्तूनां भावार्थः सत्तारूपः परमार्थो भवति कार्याकारेण जायमाने सोपाधिके ब्रह्मणि स्थितः कारणसत्तातिरिक्तायाः कार्यसत्ताया अनभ्युपगमात् । तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणो भावार्थः सत्तारूपोऽर्थो भगवान्कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात्, कल्पितस्य चाधिष्ठानानतिरेकात्, भगवतः कृष्णस्य च सर्वकल्पनाधिष्ठानत्वेन परमार्थसत्यनिरुपाधिब्रह्मरूपत्वात् । अतः किमतद्वस्तु तस्माच्छ्रीकृष्णादन्यद्वस्तु पारमार्थिकं किं निरूप्यतां तदेवैकं पारमार्थिकं नान्यत्किमपीत्यर्थः । तदेतदिहाप्युक्तं ब्रह्मणो हि प्रतिष्ठाऽहमिति । अथवा त्वद्भक्तस्त्वद्भावमाप्नुतु नाम कथं नु ब्रह्म[१]भावाय [२]कल्पते ब्रह्मणः सकाशात्तवान्यत्वादित्याशङ्कयाऽऽह-ब्रह्मणो हीति । ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिरहमेव नतु मद्भिन्नं ब्रह्मेत्यर्थः । तथाऽमृतस्यामृतत्वस्य मोक्षस्य चाव्ययस्य सर्वथाऽनुच्छेद्यस्य च प्रतिष्ठाऽहमेव । मय्येव मोक्षः पर्यवसितो मत्प्राप्तिरेव मोक्ष इत्यर्थः । तथा शाश्वतस्य नित्यमोक्षफलस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य च पर्याप्तिरहमेव । ज्ञाननिष्ठालक्षणो धर्मों मय्येव पर्यवसितो न तेन मद्भिन्नं किंचित्प्राप्य[३]मित्यर्थः । तथैकान्तिकस्य सुखस्य च पर्याप्तिरहमेव परमानन्दरूपत्वान्न मद्भिन्नं किंचित्सुखं प्राप्यमस्तीत्यर्थः । तस्माद्युक्तमेवोक्तं मद्भक्तो ब्रह्मभूयाय कल्पत इति ॥ २७ ॥
पराकृ[४]तनमद्बन्धं परं ब्रह्म नराकृति । |
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-
सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रकृति-
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
श्री० टी०-तत्र हेतुमाह-ब्रह्मणो हीति । हि यस्माद्ब्रह्मणोऽहं प्रतिष्ठा