पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
[अ० १५क्ष्लो०१४-१५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री०टी०-किंच-गामाविश्येति । गां पृथ्वीमोजसा बलेनाधिष्ठायाहमेव चराचराणि भूतानि धारयामि । अहमेव रसमयः सोमो भूत्वा व्रीह्याद्यौषधीः सर्वाः संवर्धयामि ॥ १३ ॥

 म०टी०-किं च-

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ॥
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४॥

 अहमीश्वर एव वैश्वानरो जाठरोऽग्निर्भूत्वा " अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे र्येनेदमन्नं पच्यते " इत्यादिश्रुतिप्रतिपादितः सन्प्राणिनां सर्वेषां देहमाश्रितोऽन्तःप्रविष्टः प्राणापानाभ्यां तदुद्दीपकाभ्यां संयुक्तः संधुक्षितः सन्पचामि पक्तिं नयामि प्राणिभिर्भुक्तमन्नं चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति । तत्र यदन्तैरवखण्ड्यावखण्ड्य भक्ष्यतेऽपूपादि तद्भक्ष्यं चर्व्य॑मिति चोच्यते । यत्तु केवलं जिह्वया विलोड्य निगीर्यते सूपौदनादि तद्भोज्यम् । यत्तु जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते किंचिद्रवीभूतगुडरसालाशिखरिण्यादि तल्लेह्यम् । यत्तु दन्तैर्निष्पीड्य रसांशं निगीर्यावशिष्टं त्यज्यते यथेक्षुदण्डादि तच्चोष्यमिति भेदः । भोक्ता यः सोऽग्निर्वैश्वानरो यद्भोज्यमन्नं स सोमस्तदेतदुभयमग्नीषोमौ सर्वमिति ध्यायतोऽन्नदोषलेपो न भवतीत्यपि द्रष्टव्यम् ॥ १४॥

 श्री० टी०-किं च-अहमिति ।अहं वैश्वानरो जाठरो भूत्वा प्राणिनां देहस्यान्तः प्रविश्य प्राणापानाभ्यां तदुद्दीपकाभ्यां सहितः प्राणि[१]भिर्भुक्तं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधमन्नं पचामि । तत्र यद्दन्तैरवखण्ड्यावखण्ड्य भक्ष्यतेऽपूपादि तद्भक्ष्यम् । यत्तु केवलं जिह्वया विलोड्य निगीर्यते पायसादि तद्भोज्यम् । यत्तु जिह्वायां निक्षिप्य रसास्वादेन[२] निगीर्यते द्रवीभूतं गुडादि तल्लेह्यम् । यत्तु दंष्ट्रा [३]दिभिर्निष्पीड्य सारांशं निगीर्यावशिष्टं त्यज्यत इक्षुदण्डादि तच्चोष्यमिति भेदः ॥ १४ ॥

 म०टी०-किं च-

सर्वस्य चाहं हृदि संनिविष्टो
 मत्तः स्मृतिर्ज्ञानमपोहनं च ॥
वेदैश्च सर्वैरहमेव वेद्यो
 वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥


  1. ख. ग. घ. ङ, च. छ. ज. झ, "णिनां भुक्तं ।
  2. क. न क्रमशो नि ।
  3. ख. ग. घ. ङ, चं. छ. श. ष्ट्राभिनि ।