पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
[अ०१५क्ष्लो ०२०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


संमूढो निश्चितमतिः सन्यो मां पुरुषोत्तमं जानाति स सर्वभावेन सर्वप्रकारेण मामेव भजति । ततः सर्ववित्सर्वज्ञो भवति ॥ १९ ॥

 म०टी०-इदानीमध्यायार्थं स्तुवन्नुपसंहरति-

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ॥
एतबुद्ध्या बुद्धिमानस्यात्कृतकृत्यश्च भारत ॥२०॥

इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तम-

योगो नाम पञ्चदशोऽध्यायः ॥ १५॥

 इति अनेन प्रकारेण गुह्यतमं रहस्यतमं संपूर्णं शास्त्रमेव संक्षेपेणेदमस्मिन्नध्याये मयोक्तं हेऽनघाव्यसन । एतद्बुद्ध्वाऽन्योऽपि यः कश्चिद्बुद्धिमानात्मज्ञानवान्स्यात्कृतं सर्व कृत्यं येन न पुनः कृत्यान्तरं यस्यास्ति स कृतकृत्यश्च स्यात् । विशिष्टजन्मप्रभूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् , न त्वन्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः । हे भारत त्वं तु महाकुलप्रसूतः स्वयं च व्यसनरहित इति कुलगुणेन स्वगुणेन चैतबुद्ध्वा कृतकृत्यो भविष्यसीति किमु वक्तव्यमित्यभिप्रायः ॥ २० ॥

वंशीविभूषितकरान्नवनीरदाभा-
 त्पीताम्बरादरुणबिम्बफलाधरोष्ठात् ॥
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रा-
 त्कृष्णात्परं किमपि तत्त्वमहं न आने ॥ १॥

( * सदा सदानन्दपदे निमग्नं मनो मनोभावमपाकरोति ।
गतागतायासमपास्य सद्यः परापरातीतमुपैति तत्त्वम् ॥ २ ॥
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः ।
भवन्ति यन्मयाः सर्वे सोऽहमस्मि परः शिवः ॥ ३ ॥)


  • धनुश्चिद्वान्तर्गतं श्लोकद्वयं ख. ग. घ. ङ, च, ज. झ, भ. पुस्तकेषु नास्ति । छ. पुस्तके

तु षोडशाध्यायटीकारम्भे वर्तते ।