पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१६क्ष्लो०७-८]
४२५
श्रीमद्भगवद्गीता।


 श्री०टी०-आसुरी संपत्सर्वात्मना वर्जयितव्येत्येतदर्थमासुरीं संपदं प्रपञ्चयितुमाह-द्वाविति । द्वौ द्विपकारौ भूतानां सर्गौ मे मद्वचनाच्छृणु । आसुरराक्षसप्रकृत्योरेकीकरणेन द्वावित्युक्तम् । अतः "राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः" इत्यादिना नवमाध्यायोक्तप्रकृतित्रैविध्येनाविरोधः । स्पष्टमन्यत् ॥ ६ ॥

 म. टी-वर्जनीयामासुरीं संपदं प्राणिविशेषणतया तानहमित्यतः प्राक्तनैर्द्वादशमिः श्लोकैर्विवृणोति-

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ॥
न शौचं नापि चाऽऽचारो न सत्यं तेषु विद्यते ॥७॥

 प्रवृत्तिं प्रवृत्तिविषयं धर्मं, चकारात्तत्प्रतिपादकं विधिवाक्यं च । एवं निवृत्तिं निवृत्तिविषयमधर्मं, चकारात्तत्प्रतिपादकं निषेधवाक्यं चासुरस्स्वभावा जना न जानन्ति । अतस्तेषु न शौचं द्विविधं नाप्याचारो मन्वादिभिरुक्तः । न सत्यं च प्रियहितयथार्थभाषणं विद्यते । शौचसत्ययोराचारान्तर्भावेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगुपादानम् । अशौचा अनाचारा अनृतवादिनो ह्यसुरा मायाविनः प्रसिद्धाः ॥ ७ ॥

 श्री०टी०-आसुरीं विस्तरतो निरूपयति--प्रवृत्तिं चेत्यादिद्वादशभिः। धर्मे प्रवृत्तिमधर्मानिवृत्तिं चाऽऽसुरस्वभावा जना न जानन्ति । अतः शौचमाचारः सत्यं च तेषु नास्त्येव ॥ ७ ॥

 म०टी०- ननु धर्माधर्मयोः प्रवृत्तिनिवृत्तिविषययोः प्रतिपादकं वेदाख्यं प्रमाणमस्ति निर्दोषं भगवदाज्ञारूपं सर्वलोकप्रसिद्धं, तदुपजीवीनि च स्मृतिपुराणेतिहासादीनि सन्ति, तत्कथं प्रवृत्तिनिवृत्तितत्प्रमाणाद्यज्ञानं, ज्ञाने वाऽऽज्ञोल्लाङ्घिनां शासितरि भगवति सति कथं तदननुष्ठानेन शौचाचारादिरहितत्वं दुष्टानां शासितुर्भगवतोऽपि लोकवेदप्रसिद्धत्वादत आह-

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ ८॥

 सत्यमबाधिततात्पर्यविषयं तत्त्वावेदकं वेदाख्यं प्रमाणं तदुपनीवि पुराणादि च नास्ति यत्र तदसत्यं, वेदस्वरूपस्य प्रत्यक्षसिद्धत्वेऽपि तत्प्रामाण्यानभ्युपगमाद्विशिष्टाभावः । अत एव नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थाहेतुर्यस्य तदप्रतिष्ठम् । तथा नास्ति शुभाशुभयोः कर्मणोः फलदातेश्वरो नियन्ता यस्य तदनीश्वरं त आसुरा जगदाहुः, बलवत्पापप्रतिबन्धाद्वेदस्य प्रामाण्यं ते न मन्यन्ते । ततश्च तद्बोधितयोर्धर्माधर्मयोरीश्वरस्य चानङ्गीकाराद्यथेष्टाचरणेन ते पुरुषार्थभ्रष्टा इत्यर्थः । शास्त्रैकसमधिगम्यधर्माधर्मसहायेन प्रकृत्यधिष्ठात्रा परमेश्वरेण रहितं जगदिष्यते चेत्कारणाभावात्कथं