पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
[२०१६क्ष्लो० १९]
४३१
श्रीमद्भगवद्गीता।

चेन्नेत्याह-मामीश्वरं भगवन्तमात्मपरदेहेषु आत्मनां तेषामासुराणां परेषां च तत्पुत्रमार्यादीनां देहेषु प्रेमास्पदेषु तत्तद्वृद्धिकर्मसाक्षितया सन्तम[१]तिप्रेमास्पदमपि दुर्दैवपरिपाकात्प्रद्विषन्त ईश्वरस्य मम शासनं श्रुतिस्मृतिरूपं तदुक्तार्थानुष्ठानपराङ्मुखतया तदतिवर्तनं मे प्रद्वेषस्तं कुर्वन्तः । नृपाद्याज्ञालङ्घनमेव हि तत्प्रद्वेष इति प्रसिद्धं लोके । ननु गुर्वादयः कथं तान्नानुशासति तत्राऽऽह-अभ्यसूयका गुर्वादीनां वैदिकमार्गस्थानां कारुण्यादिगुणेषु प्रतारणादिदोषारोपकाः । अतस्ते सर्वसाधनशून्या नरक एव पतन्तीत्यर्थः । मामात्मपरदेहेष्वित्यस्यापरा व्याख्या--स्वदेहे परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तो यजन्ते दम्भयज्ञेषु श्रद्धाया अभावादीक्षादिनाऽऽत्मनो वृथैव पीडा भवति । तथा पश्चादीनामप्यविधिना हिंसया चैतन्यद्रोहमात्रमवशिष्यत इति । अपरा व्याख्या-आत्मदेहे जीवानाविष्टे भगवल्लीलाविग्रहे वासुदेवादिसमाख्ये मनुष्यत्वादिभ्रमान्मां प्रद्विषन्तः । तथा परदेहेषु भक्तदेहेषु प्रह्लादादिसमाख्येषु सर्वदाऽऽविर्भूतं मां प्रद्विषन्त इति योजना । उक्तं हि नवमे-

" अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥
मोघाशा मोधकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृति मोहिनी श्रिताः" इति ॥

 " अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः” इति चान्यत्र । तथा च भजनीये द्वेषान्न भक्त्या पूतता तेषां संभवतीत्यर्थः ॥ १८ ॥

 श्री० टी०-अविधिपूर्वकत्वमेव प्रपञ्चयति-अहंकारमिति । अहंकारादीन्संश्रिताः सन्त आत्मपरदेहेषु स्वदेहेषु परदेहेषु च चिदंशेन स्थितं मां प्रद्विषन्तो यजन्ते । दम्भयज्ञेषु श्रद्धाया अभावादात्मनो वृथैव - पीडा भवति । तथा पश्वादीनामपि अविधिना हिंसायां चैतन्यद्रोहमात्रमेवावशिष्यत इति प्रद्विषन्त इत्युक्तम् । अभ्यसूयकाः सन्मार्गवर्तिनां गुणेषु दोषारोपकाः ॥ १८ ॥

 म०टी०-ते[२]षां त्वत्कृपया कदाचिन्निस्तारः स्यादिति नेत्याह-

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ॥
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥

तान्सन्मार्गप्रतिपक्षभूतान्द्विषतः साधून्मां च क्रूरान्हिंसापरानतो नराधमानतिनिन्दितानजस्रं संततमशुभानशुभकर्मकारिणोऽहं सर्वकर्मफलदातेश्वरः संसारेष्वेव नरकसंसरणमार्गेषु क्षिपामि पातयामि । नर[३]कगतांश्चाऽऽसुरीष्वेवातिक्रूरासु व्याघ्रसर्पादियोनिषु


  1. घ. मपि प्रे ।
  2. ख. 'षां तत्कृ' ।
  3. ग. व. छ. ज. झ. 'रकाग।