पुनस्तादृश एव भवति । यस्तु तमस उत्कर्षण तामसश्रद्धया युक्तः स पुनस्तादृश एव भवतीति लोकाचारमात्रेण प्रवर्तमानेष्वेवं सात्त्विकराजसतामसश्रद्धाव्यवस्था । शास्त्रजनितविवेकज्ञानयुक्तानां तु स्वभावविजयेन सात्त्विक्येकैव श्रद्धेति प्रकरणार्थः ॥ ३ ॥
म० टी०-श्रद्धा ज्ञाता सती निष्ठां ज्ञापयिष्यति, केनोपायेन सा ज्ञायतामित्यपेक्षिते देवपूजादिकार्यलिङ्गेनानुमेयेत्याह--'
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ॥ |
जनाः शास्त्रीयविवेकहीना ये स्वाभाविक्या श्रद्धया देवान्वसुरुद्रादीन्सात्त्विकान्यजन्ते तेऽन्ये सात्त्विका ज्ञेयाः । ये च यक्षान्कुबेरादीन्रक्षांसि च राक्षसान्निर्ऋ तिप्रभृतीनराजसान्यजन्ते तेऽन्ये राजसा ज्ञेयाः । ये च प्रेतान्विप्रादयः स्वधर्मात्प्रच्युता देहपातादूर्ध्वं वायवीयं देहमापन्ना उल्कामुख[१]कटपूतनादिसंज्ञाः प्रेता भवन्तीति मनूक्तान्पिशाचविशेषान्वा, भूतगणांश्च सप्तमातृकादींश्च तामसान्यजन्ते तेऽन्ये तामसा ज्ञेयाः । अन्य इति पदं त्रिष्वपि वैलक्षण्यद्योतनाय संबध्यते ॥ ४ ॥
श्री०टी०–सात्त्विकादिभेदमेव कार्यभेदेन प्रपञ्चयति-यजन्त इति । सात्त्विका जनाः सत्तप्रकृतीन्देवानेव यजन्ते पूजयन्ति । राजसास्तु रजःप्रकृतीन्यक्षानराक्षसांश्च यजन्ते । एतेभ्योऽन्ये तु विलक्षणास्तामसा जनास्तामसानेव प्रेतान्मूतगणांश्च यजन्ते । सत्त्वादिप्रकृतीनां तत्तद्देवतानां तु पूजारुचिभिस्तत्तत्पूजकानां सात्त्विकत्वादि ज्ञातव्यमित्यर्थः ॥ ४ ॥
म०टी०-एवमनादृतशास्त्राणां सत्त्वादिनिष्ठा कार्यतो निर्णीता । तत्र केचिद्राजसतामसा अपि प्राग्भवीयपुण्यपरिपाकात्सात्त्विका भूत्वा शास्त्रीयसाधनेऽधिक्रियन्ते । ये तु दुराग्रहेण दुर्दैवपरिपाकप्राप्तदुर्जनसङ्गादिदोषेण च राजसतामसतां न मुञ्चन्ति ते शास्त्रीयमार्गाद्भ्रष्टा असन्मार्गानुसरणेनेह लोके परत्र च दुःखभागिन एवेत्याह द्वाभ्याम्-
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ॥ |
- श्रीधरटीकादर्शपुस्तकेषु मूले कर्षयन्त इति पाठः