इति स्थिते सात्त्विकानामादानाय राजसतामसानां हानाय चाऽऽहारयज्ञतपोदानानां
त्रैविध्यमाह-
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ॥ |
न केवलं श्रद्धैव त्रिविधा, आहारोऽपि सर्वस्य प्रियस्त्रिविध एव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्या विधाया असंभवात् । यथा दृष्टार्थ आहारस्त्रिविधस्तथा यज्ञतपोदानान्यदृष्टार्थान्यपि त्रिविधानि । तत्र "यज्ञं व्याख्यास्यामो द्र[१]व्यदेवतात्यागः" इति कल्पकारैर्दैवतोद्देशेन द्रव्यत्यागो यज्ञ इति निरुक्तः । स च यजतिना जुहोतिना च चोदितत्वेन यामो होमश्चेति द्विविध उत्तिष्ठद्धोमा वषट्कारप्रयोगान्ता याज्यापुरोनुवाक्यावन्तो यजतय उपविष्टहोमाः स्वाहाकारप्रयोगान्ता याज्यापुरोनुवाक्यारहिता जुहोतय इति कल्पकारैर्याख्यातो यज्ञशब्देनोक्तः । तपः कायेन्द्रियशोषणं कृच्छूचान्द्रायणादि । दानं परस्वत्वापत्तिफलकः स्वस्वत्वत्यागः । तेषामाहारयज्ञतपोदानानां सात्त्विकराजसतामसभेदं मया व्याख्यायमानमिमं शृणु ॥ ७ ॥
श्री०टी०-आहारादिभेदादपि सात्त्विकादिभेदं दर्शयितुमाह-आहारस्त्वित्यादित्रयोदशभिः । सर्वस्यापि जनस्य य आहारोऽन्नादिः स तु यथायथं त्रिविधः प्रियो भवति । तथा यज्ञतपोदानानि च त्रिविधानि भवन्ति । तेषां च वक्ष्यमाणमिमं भेदं शृणु । एतच्च राजसतामसाहारयज्ञादिपरित्यागेन सात्त्विकाहारयज्ञादिसेवया सत्त्ववृद्धौ यत्नः कर्तव्य इत्येतदर्थं कथ्यते ॥ ७ ॥
म. टी.-आहारयज्ञतपोदानानां भेदः पञ्चदशभिर्व्याख्यायते । तत्राऽऽहारभेदस्त्रिभिः-
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ॥ |
आयुश्चिरजीवन, सत्त्वं चित्तधैर्य बलवति दुःखेऽपि निर्विकारत्वापादकं, बलं शरीरसामर्थ्यं स्वोचिते कार्ये श्रमाभावप्रयोजकम् , आरोग्यं व्याध्यभावः, सुखं भोजनानन्तराह्लादस्तृप्तिः, प्रीतिर्भो[२]जनकालेऽनभिरुचिराहित्यमि[३]च्छौत्क[४]ट्यं तेषां विवर्धना विशेषेण वृद्धिहेतवः, रस्या आस्वाद्या मधुररसप्रधानाः, स्निग्धाः सहजेनाऽऽगन्तुकेन वा स्नेहेन युक्ताः, स्थिरा रसाद्यंशेन शरीरे चिरकालस्थायिनः, हृद्या हृदयंगमा दुर्गन्धाशुचित्वा-