पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
[अ०१७क्ष्लो०२६-२७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तदित्युदाहृत्य शुद्धचित्तैर्मोक्षकाक्षिभिः पुरुषैः फलाभिसंधिमकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते । अतश्चित्तशोधनद्वारेण फलसंकल्पत्याजनेन मुमुक्षुत्वसंपादकत्वात्तच्छब्दनिर्देशः प्रशस्त इत्यर्थः ॥ २५ ॥

 म०टी०-तृतीयं सच्छब्दं व्याचष्टे द्वाभ्याम्-

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ॥
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥

 "सदेव सोम्येदमग्र आसीत्" इत्यादिश्रुतिप्रसिद्धं सदित्येतद्ब्रह्मणो नाम सद्भावेऽविद्यमानत्वशङ्कायां विद्यमानत्वे साधुभावे चासाधुत्वशङ्कायां साधुत्वे च प्रयुज्यते शिष्टैः । तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्फलस्य च विद्यमानत्वं कर्तुं क्षममेतदित्यर्थः । तथा सद्भावसाधुभावयोरिव प्रशस्तेऽप्रतिबन्धेनाऽऽशुसुखजनके माङ्गलिके कर्मणि विवाहादौ सच्छब्दो हे पार्थ युज्यते प्रयुज्यते । तस्मादप्रतिबन्धेनाऽऽशुफलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतन्नामेति प्रशस्ततरमेतदित्यर्थः ॥ २६ ॥

 श्री०टी-सच्छब्दस्य प्राशस्त्यमाह सद्भाव इति द्वाभ्याम्-~-सद्भावेऽस्तित्वे देवदत्तस्य पुत्रादिकमस्तीत्यस्मिन्नर्थे साधुभावे च साधुत्वे देवदत्तस्य पुत्रादि श्रेष्ठमित्यस्मिन्नर्थे सदित्येतत्पदं प्रयुज्यते । प्रशस्ते माङ्गलिके विवाहादिकर्मणि च सदिदं कर्मेति सच्छब्दो युज्यते प्रयुज्यते संगच्छत इति वा ॥ २६ ॥

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ॥
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

 म०टी०-यज्ञे तपसि दाने च या स्थितिस्तत्परतयाऽवस्थितिनिष्ठा साऽपि सदित्युच्यते विद्वद्भिः । कर्म चैव तदर्थीयं तेषु यज्ञदानतपोरूपेष्वर्थेषु भवं तदनुकूलमेव च कर्म । अथवा यस्य ब्रह्मणो नामेदं प्रस्तुतं तदेवार्थो विषयो यस्य तत्तदर्थं शुद्धब्रह्मज्ञानं तदनुकूलं कर्म तदर्थीयं, भगवदर्पणबुद्ध्या क्रियमाणं कर्म वा तदर्थीयं सदित्येवाभिधीयते । तस्मात्सदिति नाम कर्मवैगुण्यापनोदनसमर्थं प्रशस्ततरम् । यस्यैकैकोऽवयवोऽप्येतादृशः किं वक्तव्यं तत्समुदायस्योतत्सदिति निर्देशस्य माहात्म्य मिति संपिण्डितार्थः ॥ २७ ॥

 श्री०टी०- किं च-यज्ञ इति । यज्ञादिषु च या स्थितिस्तात्पर्यणावस्थानं तदपि सदित्युच्यते । यस्य चेदं नामत्रयं स एव परमात्माऽर्थः फलं यस्य तत्तदर्थं कर्म पूजोपहारगृहाङ्गणपरिमार्जनोपलेपरङ्गमालिकादिक्रिया तसिद्धये यदन्यत्कर्म क्रियत उद्यानशालिक्षेत्रधनार्जनादिविषयं तत्कर्मं तदर्थीयम् । तच्चातिव्यवहितमपि सदित्येवाभिधीयते । यस्मादेवमतिप्रशस्तमेतन्नामत्रयं तस्मादेतत्सर्वकर्मसाद्गुण्यार्थ कीर्त.