पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०६-७]]
४५९
श्रीमद्भगवद्गीता।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ॥
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६॥

 तुशब्दः शङ्कानिराकरणार्थः । यद्यपि काम्यान्यपि शुद्धिमादधति धर्मस्वाभाव्यात्तथाऽपि सा तत्फलभोगोपयोगिन्येव न ज्ञानोपयोगिनी । तदुक्तं वार्तिककृद्भिः-

"काम्येऽपि शद्धिरस्त्येव भोगसिद्धयर्थमेव सा ।
विड्वराहादिदेहेन न ह्यैन्द्रं भुज्यते फलम् " इति ॥

 ज्ञानोपयोगिनीं तु शुद्धिमादधति यानि यज्ञादीनि कर्माणि एतानि फलाभिसंधिपूर्वकत्वेन बन्धनहेतुभूतान्यपि मुमुक्षुभिः सङ्गमहमेवं करोमीति कर्तृत्वाभिनिवेशं फलानि चाभिसंधीयमानानि त्यक्त्वाऽन्तःकरणशुद्धये कर्तव्यानीति मे मम निश्चितम् । अत एव हे पार्थ कर्माधिकृतैः कर्माणि त्याज्यानि न त्याज्यानि वेति द्वयोर्मतयोर्न त्याज्यानीति मम निश्चितं मतमुत्तमं श्रेष्ठम् । यदुक्तं निश्चयं शृणु मे तत्रेति सोऽयं निश्चय उपसंहृतः ।

भगवत्पूज्यपादानामभिप्रायोऽयमीरितः ।
अनिष्णाततया भाष्ये दुरापो मन्दबुद्धिभिः ॥ ६ ॥

 श्री०टी०-येन प्रकारेण कृतान्येतानि पावनानि भवन्ति तं प्रकारं दर्शयनाह-एतानीति । यानि यज्ञादिकर्माणि मया पावनानीत्युक्तम्, एतान्येव कर्तव्यानि । कथं सङ्गं कर्तत्वाभिनिवेशं त्यक्त्वा केवलमीश्वराराधनतया कर्तव्यानीति फलानि च त्यक्त्वा कर्तव्यानीति च निश्चितं मे मम मतम् । अत एवोत्तमम् ॥ ६ ॥

 म०टी०-तदेवं “ यज्ञदानतपः कर्म न त्याज्य मिति चापरे " इति स्वपक्षः स्थापितः । इदानीं " त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः” इति परपक्षस्य पूर्वोक्तत्यागत्रैविध्यव्याख्यानेन निराकरणमार[१]भते-

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ॥
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७॥

 का[२] म्यस्य कर्मणोऽन्तःकरणशुद्धिहेतुत्वाभावेन बन्धहेतुत्वेन च दोषवत्त्वाद्वन्धनिवृत्तिहेतुबोधार्थिना क्रियमाणस्त्याग उपपद्यत एव । नियतस्य तु नित्यस्य कर्मणः शुद्धिहेतुत्वेनादोषस्य संन्यासस्त्यागो मुमु[३]क्षूणामन्तःकरणशुध्ध्यर्थि[४]नां नोपपद्यते शास्त्रयुक्तिभ्यां तस्यान्तःकरणशुद्ध्यर्थमवश्यानुष्ठेयत्वात् । तथाचोक्तं प्राक् आरु.


  1. ख. ग. ङ. छ. अ. "रभ्यते ।
  2. ङ. एवं का।
  3. क. ख. घ. च. ज. झ. 'मुक्षुणाऽन्तः ।
  4. क. ख. घ. च. छ. ज. झ.र्थिना नों।