पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०७]
४६१
श्रीमद्भगवद्गीता।

विधिजन्यप्रवृत्तिविषयत्वाभावात् । विधिजन्यप्रवृत्तिविषयं तु धात्व [१]र्थरूपं करणं प्रवर्तनाऽवलम्बते । सा चानर्थहेतुं न विषयी करोतीति विशेषविधिबाधितं सामान्यनिषेधवाक्यं रागद्वेषादिमूलाक्रत्वर्थलौकिकहिंसाविषयम् । तेन श्येनाग्नीषोमीययोवैषम्यादुपपन्नमदुष्टत्वं ज्योतिष्टोमादेः । विधिस्पृष्टस्यापि निषेधविषयत्वे षोडशिग्रहणस्याप्यनर्थहेतुत्वापत्तिर्नातिरात्रे षोडशिनं गृह्णातीति निषेधात् । तस्मान्न किंचिदेतदिति भाट्टं दर्शनम् । प्राभाकरं तु दर्शनं फलसाधने रागत एवं प्रवृत्तिसिद्धेर्न नियोगस्य प्रवर्तकत्वं, तेन श्येनस्य रागजन्यप्रवृत्तिविषयत्वेन विधेरौदासीन्यान्न तस्यानर्थहेतुत्वं विधिना प्रतिक्षिप्यते । अग्नीषोमीयाहिंसायां तु त्वङ्गभूतायां फलसाधनत्वाभावेन रागाभावाद्विधिरेव प्रवर्तकः । स च स्वविषयस्यानर्थहेतुतां प्रतिक्षिपतीति प्रधानभूता हिंसाऽनर्थं जनयति न क्रत्वर्थेति न हिंसामिश्रत्वेन ज्योतिष्टोमादेर्दष्टत्वमिति सममेव । एतावन्मात्रे तु विशेषः, “ चोदनालक्षणोऽर्थो धर्मः " इत्यत्रार्थपदव्या[२]वयत्वेनाधर्मत्वं श्येनादेः प्राभाकरमते । भाट्टमते तु श्येनफलस्यैवाभिचारस्यानर्थहेतुत्वादधर्मत्वं, श्येनस्य तु विहितस्य समीहितसाधनस्य धर्मत्वमेव । अर्थपदव्यावर्त्यत्वं तु कलञ्जभक्षणादेर्निषिद्धस्यैवेति फलतोऽनर्थहेतुत्वेन[३] तु शिष्टानां श्येनादौ न धर्मत्वेन व्यवहारः । तदुक्तं-

"फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ।
केवलप्रीतिहेतुत्वात्तद्धर्म इति कथ्यते” इति ॥

 तार्किकाणां तु दर्शनं कृतिसाध्यत्वमर्थहेतुत्वमनर्थाहेतुत्वं चेति त्रयं विध्यर्थः । तत्र क्रत्वर्थहिंसायां साक्षानिषेधाभावात्प्रायश्चित्तानुपदेशाच्च कृतिसाध्यत्वार्थहेतुत्ववदनर्थाहेतुत्वमपि विधिना बोध्यत इति न तस्या अनर्थहेतुत्वम् । श्येनादेस्त्वविचारस्य साक्षादेव निषेधात्प्रायश्चित्तोपदेशाच्चानर्थहेतुत्वावगमात्तावन्मात्रं तत्र विधिना न बोध्यत इत्युपपन्नं श्येनाग्नीषो[४]मीययोर्वैलक्षण्यम् । औपनिषदैस्तु भाट्टमेव दर्शनं व्यवहारे प्रायेणावलम्बितम् । तथा च भगवद्वादरायणप्रणीतं सूत्रम्-" अशुद्धमिति चेन्न शब्दात्" इति । ज्योतिष्टोमादिकर्माग्नीषोमीयहिं[५]सादिमिश्रितत्वेन दुष्टमिति चेत् , न, "अग्नीषो. मीयं पशुमालभेत" इत्यादिविधिशब्दादित्यक्षरार्थः । जपप्रशंसापरं तु वाक्यं न क्रत्वर्थहिंसाया अधर्मत्वबोधकं तस्य तत्रातात्पर्यात् । तथाच सांख्यानां विहिते निषिद्धत्वज्ञानमनर्थाहेतावनर्थहेतुत्वज्ञानं धर्मे चाधर्मत्वज्ञानमनुष्ठेये चाननुष्ठेयत्वज्ञानं विपर्यासरूपो मोहस्तस्मान्मोहान्नित्यस्य कर्मणो यः परित्यागः स तामसः परिकीर्तितः । मोहो हि तमः ॥ ७॥


  1. क. ख. ङ. छ. त्वर्थं क । ग. अ. त्वर्थक । ज. त्वर्थ प्र ।
  2. ङ. व्यावृत्त्यर्थत्वे ।
  3. ख. घ. ज. न शि ।
  4. क. ख. घ. च. छ. ज. झ. षोमयो ।
  5. ज. सामि।