पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २ क्ष्लो० १५]
४१
श्रीमद्भगवद्गीता ।


 एते सुखदुःखदा मात्रास्पर्शा हि यस्मान्न व्यथयन्ति परमार्थतो न विकुर्वन्ति सर्वविकारभासकत्वेन विकारायोग्यत्वात् ।

“सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' इति श्रुतेः ॥

 अतः स पुरुषः स्वस्वरूपभूतब्रह्मात्मैक्यज्ञानेन सर्वदुःखपादानतदज्ञाननिवृत्त्युपलक्षिताय निखिलद्वैतानुपरक्तस्वप्रकाशपरमानन्दरूपायामृतत्वाय मोक्षाय कल्पते योग्य भवतीत्यर्थः । यदि ह्यात्मा स्वाभाविकबन्धाश्रयः स्यात्तदा स्वाभाविकधर्माणां धर्मिनिवृत्तिमन्तरेणानिवृत्तेर्न कदाऽपि मुच्येत । तथाचोक्तम्--

"आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।
न हि स्वभावो भावानां व्यावर्तेंतौप्ण्यवद्रवेः इति ॥

 प्रागभावासहवृत्तेर्युगपत्सर्वविशेषगुणनिवृत्तेधर्मनिवृत्तिनान्तरीयकत्वदर्शनात् । अथाऽऽत्मनि बन्धो न स्वाभाविकः किंतु बुद्याद्युपाधिकृतः, “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुमनीषिणः' इति श्रुतेः । तथा च धर्मिसद्भावेऽपि तन्निवृत्त्या मुक्त्युपपत्तिरिति चेत्, हन्त तहिं यः स्वधर्ममन्यनिष्ठतया भासयति स उपाधिरित्यभ्युपगमाद्बुद्धयादिरुपाधिः स्वधर्ममात्मनिष्ठतया भासयतीत्यायातम् । तथा चाऽऽयातं मार्गे बन्धस्यासत्यत्वाम्युपगमात् । न हि स्फटिकमणौ जपाकुसुमेधाननिमित्तो लोहितिमा सत्यः । अतः सर्वसंसारधर्मसंसर्गिणोऽप्यात्मन उपाधिवशात्तत्संसर्गित्वप्रतिभासो बन्धः, स्वस्वरूपज्ञानेन तु स्वरूपाज्ञानतत्कार्यबुद्धयाद्युपाधिनिवृत्त्या तन्निमित्तनिखिलभ्रमनिवृत्तौ निर्मूष्टनिखिलभास्योपरागतया शुद्धस्य स्वप्रकाशपरमानन्दतया पूर्णस्याऽऽत्मनः स्वत एवं कैवल्यं मोक्ष इति न बन्धमोक्षयोर्वैयधिकरण्यापात्तिः । अत एव नाममात्रे विवाद इत्यपास्तं, भास्यभासकयोरेकत्वानुपपत्तेः । दुःखी स्वव्यतिरिक्तभास्यो भास्यत्वाद्धटवदित्यनुमानाद्भास्यस्य भासकत्वादर्शनात् । एकस्यैव भास्यत्वे भासकत्वे च कर्तृकर्मविरोधादात्मनः । कथमिति चेत्, न, तस्य भासकत्वमात्राभ्युपगमात्, अहं दुःखीत्यादिवृत्तिसहिताहंकारभासकत्वेन तस्य कदाऽपि भास्यकोटावप्रवेशात् । अत एवं दुःखी न स्वातिरिक्तभासकापेक्षा भासकत्वाद्दीपवादत्यनुमानमपि न, भास्यत्वेन स्वातिरिक्तभासक[१]त्वसाधकेन प्रतिरोधात् । भासकत्वं च भानकरणत्वं स्वप्रकाशभानरूपत्वं वा । आद्ये दीपस्येव करणान्तरानपेक्षत्वेऽपि स्वातिरिक्तभानसापेक्षत्वं दुःखिनो न व्याहन्यतेऽन्यथा दृष्टान्तस्य साव्यवैकल्यापत्तेः । द्वितीये त्वसिद्धो हेतुरित्याधिक बलतया भास्यत्वहेतुरेव विजयते । बुद्धिवृत्त्यतिरिक्तभानानभ्युपगमाबुद्धिरव भानरू-


  1. के. ग. घ. ङ. च. छ. ज. झ. अ. “कसा"