पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७२
[अ० १८क्ष्लो०१७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 इति चरणत्रयं व्याख्यातमिदानीं " न तु संन्यासिनां क्वचित् " इति तुरीयं चरणमेकेन व्याचष्टे-

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ॥
हत्त्वाऽपि स इमाल्लोकान्न हन्ति न निबध्यते ॥ १७॥

 यस्य पूर्वोक्तविपरीतस्य पुण्यैः कर्मभिः क्षपितेपु विवेकविरोधिपापेषु नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयं प्राप्तवतः शास्त्राचार्योपदेशन्यायजनिताकर्त्रभोक्तृस्वप्रकाशपरमानन्दाद्वितीयब्रह्मात्मसाक्षात्कारस्याज्ञाने सकार्ये बाधिते न भवत्यहं कर्तेत्येवंरूपो भावः प्रत्ययः । यस्य भावः सद्भावोऽहंकृतोऽहमितिव्यपदेशार्हो न, अहंकारवाधेन शुद्धस्वरूपमात्रपरिशेषादिति वा । अहंकृतोऽहंकारस्य मावस्तत्तादात्म्यं यस्य न विवेकेन बाधितत्वादिति वा । बाधितानुवृत्तावपि एत एव पञ्चाधिष्ठानादयो मायया मयि सर्वात्मनि कल्पिताः सर्वकर्मणां कर्तारो मया स्वप्रकाशचैतन्येनासङ्गेन कल्पितसंबन्धेन प्रकाश्यमाना अहं तु न कर्ता किंतु कर्तृतद्व्यापाराणां साक्षिभूतः क्रियाज्ञानशक्तिमदुपाधिद्वयनिर्मुक्तः शुद्धः सर्वकार्यकारणासंबद्धः कूटस्थनित्यो निर्द्वयः सर्वविकारशून्यः " असङ्गो ह्ययं पुरुषः,” "साक्षी चेता केवलो निर्गुणश्व,” "अप्राणो ह्यमनाः शुभ्रो अक्षरात्परतः परः," "अज आत्मा महान्ध्रुवः सलिल एको दृष्टाऽद्वैतः, "अजो नित्यः शाश्वतोऽयं पुराणः," "निष्कलं निष्क्रिय शान्तं निरवयं निरञ्जनम्" इत्यादिश्रुतिभ्यः, “ अविकार्योऽयमुच्यते, "

"प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहंकारविमूढात्मा कर्ताऽहमिति मन्यते," ॥

 "तत्त्ववित्तु न सज्जते," "शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते " इत्यादिस्मृतिभ्यश्च । तस्मान्नाहं कर्तेत्येवंपरमार्थदृष्टेर्बुद्धिरन्तःकरणं यस्य न लिप्यते नानुशयिनी भवति, इदमहमकार्षमेतत्फलं भोक्ष्य इत्यनुसंधानं कर्तृत्ववासनानिमित्तं लेपोऽनुशयः । स च पुण्ये कर्मणि हर्षरूपः । पापे पश्चात्तापरूपः। ईदृशेन द्विविधेनापि लेपेन बुद्धिर्न युज्यते कर्तृत्वाभिमानबाधात् । तथा च ज्ञानिनं प्रकृत्य श्रुतिः---"एतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः । तदेतदृचाऽभ्युक्तम् -

एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेन ” इति ॥

 पापकेनेति पुण्यस्याप्युपलक्षणम् । वर्धते कनीयानिति च पुण्यपापयोः परितोषपरितापाभिप्रायम् । एवं यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते स पूर्वोक्तदुर्मतिविलक्षणः सुमतिः परमार्थदर्शी पश्यत्यकर्तारमात्मानं केवलं, स