पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो०१६ ]
४३
श्रीमद्भगवद्गीता ।


लपरिच्छेदानभ्युपगमाद्देशपरिच्छेदोऽपि पृथगुक्तः । स च किंचिद्देशवृत्तिरत्यन्ताभावः । एवं सजातीयभेदो विजातीयभेदः स्वगतभेदचेति त्रिविधो भेदो वस्तुपरिच्छेदः । यथा वृक्षस्य वृक्षान्तराच्छिलादेः पत्रपुष्पादेश्च भेदः । अथवा जीवेश्वरभेदो जीवजगद्भेदो जीवपरस्परभेद ईश्वरजगद्भेदो जगत्परस्परभेद इति पञ्चविधो वस्तुपरिच्छेदः । कालदेशापरिच्छिन्नस्याप्याकाशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथङ्निर्देशः । एवं सांख्यमतेऽपि योजनीयम् । एतादृशस्यासतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य भावः सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वं न विद्यते न संभवति घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात् । न हि दृश्यं किंचित्क्वचित्काले देशे वस्तुनि वा न निषिध्यते सर्वत्राननुगमात् । न वा सद्स्तु क्वचिद्देशे काले वस्तुनि वा निषिध्यते सर्वत्रानुगमात् । तथाच सर्वत्रानुगते सद्वस्तुनि अननुगतं व्यभिचारि वस्तु कल्पितं रज्जुखण्ड इवानुगते व्याभिचारि सर्पधारादिकामिति भावः । ननु व्यभिचारिणः कल्पितत्वे सद्वस्त्वपि कल्पितं स्यात्तस्यापि तुच्छव्यावृत्तत्वेन व्यभिचारित्वादित्यत आह–नाभावो विद्यते सत इति । सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरच्छिन्नत्वं तच्च न तुच्छव्यावृत्तत्वेन तुच्छे शशविषाणादौ सत्त्वायोगात् । “[१]सद्भयामभावो निरूप्यते" इति न्यायात् । एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सद्यक्तिभेदानम्युपगमात् । घटः सन्नित्यादिप्रतीतेः सार्वलौकिकत्वेन सतो घटाद्यधिकरणकभेदप्रतियोगित्वायोगात् । अभावः परिच्छिन्नत्वं देशतः कालतो वस्तुतो वा सतः सर्वानुस्यूतसन्मात्रस्य न विद्यते न संभवति पूर्ववद्विरोधादित्यर्थः । ननु सन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदः प्रतिषिध्यते, किं तह सत्त्वं नाम परं सामान्यं तदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारः, तदेकाश्र[२]यत्वसंबन्धेन सामान्यविशेषसमवायेषु । तथाचासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं कारणव्यापारात्सतोऽपि तस्याभावः कारणनाशाद्भवत्येवेति कथमुक्तं नासतो विद्यते भावो नाभावो विद्यते सत इति । एवं प्राप्ते परिहरति-उभयोरपीत्यर्थेन । उभयोरपि सदसतोः सतश्चासतश्चान्तो मर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति दृष्टो निश्चितः श्रुतिस्मृतियुक्तिभिचारपूर्वकम् । कैः, तत्त्वदर्शिभिर्वस्तुयाथात्म्यदर्शनशीलैर्ब्रह्मविद्भिर्न तु कुतार्किकैः । अतः कुतर्किकाणां न विपर्ययानुपपत्तः । तुशब्दोऽवधारण एकान्तरूपो नियम एव दृष्टो न त्वनेकान्तरूपोऽन्यथाभाव इति, तत्त्वदर्शिभिरेव दृष्टो नातत्त्वदर्शिभिरिति वा । तथा च श्रुतिः “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रम्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो, इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्यं सत्यं दर्शयति । “वाचारम्भणं


  1. झ. सदसद्भया ।
  2. क. ग. घ. ङ. च. छ. ज. झ. ञ. 'यसं° ।