पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०२४-२६]
४८३
श्रीमद्भगवद्गीता।


कृतमरागद्वेषतः कृतम् | अफलप्रेप्सुना फलाभिलाषरहितेन कर्त्रा यत्कृतं कर्म यागदानहोमादि तत्सात्त्विकमुच्यते ॥ २३ ॥

 श्री०टी०-इदानी त्रिविधं कर्माऽऽह-नियतमिति त्रिभिः । नियतं नित्यतया विहितं सङ्गरहितमभिनिवेशशून्यमरागद्वेषतः पुत्रादिप्रीत्या वा शत्रुद्वेषेण वा यत्कृतं न भवति फलं प्राप्तुमिच्छतीति फलप्रेप्सुस्तद्विलक्षणेन निष्कामेण कर्त्रा यत्कृतं कर्म तत्सात्त्विकमुच्यते ॥ २३ ॥

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः ॥
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥

 म०टी०-तुः सात्त्विकाद्भिनत्ति । कामेप्सुना [१]फलकामेन कर्त्रा साहंकारेण प्रागुक्तसङ्गात्मकगर्वयुक्तेन च । वाशब्दः समुच्चये । पुनरित्यनियतं यावत्कामनं काम्यावृत्तेः । बहुलायासं सर्वाङ्गोपसंहारेण क्लेशावहं यत्काम्यं कर्म क्रियते तद्राजसमुदाहृतम् । अत्र सविशेषणैः सात्त्विकसर्वविशेषणव्यतिरेको दर्शितः ॥ २४ ॥

 श्री०टी०-राजसं कर्माऽऽह-यत्त्विति । यत्तु कर्म कामेप्सुना फलं प्राप्तमिच्छता साहंकारेण वा मत्समः कोऽन्यः श्रोत्रियोऽस्त्तीत्येवं निरूढाहंकारयुक्तेन च क्रियते । यच्च पुनर्बहुलायासमतिक्लेशयुक्तं तत्कर्म राजसमुदाहृतम् ॥ २४ ॥

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ॥
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥

 म० टी०-अनुबन्धं पश्चाद्भाव्यशुभं, क्षयं शरीरसामर्थ्यस्य धनस्य सेनायाश्च नाशं, हिंसां प्राणिपीडां, पौरुषमात्मसामर्थ्यं चानपेक्ष्यापर्यालोच्य मोहात्केवलाविवेकादेवाऽऽरभ्यते यत्कर्म यथा दुर्योधनेन युद्धं तत्तामसमुच्यते ॥ २५ ॥

 श्री०टी०-तामसं कर्माऽऽह-अनुबन्धमिति । अनुबध्यत इत्यनुबन्धः पश्चाद्भावि शुभाशुभं क्षयं वित्तव्ययं हिंसां परपीडां च पौरुषं स्वसामर्थ्यं चान[२]वेक्ष्यापर्यालोच्य केवलं मोहादेव यत्कर्माऽऽरभ्यते तत्तामसमुच्य[३]ते ॥ २५ ॥

 म० टी०-इदानीं त्रिविधः कर्तोच्यते-

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥
सिद्धयसिद्धयोनिर्विकारः कर्ता सात्त्विक उच्यते॥२६॥


 * श्रीधरटीकापुस्तकेषु क. ख. ज. संज्ञितातिरिक्तेषु मूले “अनुवेक्ष्य" इति पाठः । + श्रीधर- टीकामूले “ तत्तामस[४]मुदाहृतम् " इति पाठः ।


  1. ग. ङ. न. सकामेन ।
  2. ज. नपेक्ष्या ।
  3. ख. 'च्यत उदाहृतम् ॥ २५ ॥
  4. ग. घ. ङ. च. छ. ज. स. मुदाहृतम् ॥२५॥