पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५००

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०१५-४६]
४९७
श्रीमद्भगवद्गीता।


अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते ।
नित्यां क्रियां तथा चान्ये अनुषङ्गफलं विदुः" [इति] ॥

 अन्य आपस्तम्बादयस्तद्यथाऽऽम्रे फलार्थे निमित इत्यादिवचनैरानुषङ्गिकफलतां नित्यकर्मणो विदुः । श्रुतिश्च-" त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् " इति गृहस्थवानप्रस्थब्रह्मचारिण उक्त्वा " सर्व एते पुण्यलोका भवन्ति " इति तेषामन्तःकरणशुद्धयमावे मोक्षाभावमुक्त्वा शुद्धान्तःकरणानामेषामेव परिव्राजकमावेन ज्ञाननिष्ठया मोक्षमाह-" ब्रह्मसंस्थोऽमृतत्वमेति " इति । तदेवं स्थिते ब्रह्मचारी गृहस्थो वानप्रस्थो वा मुमुक्षुः फलाभिसंघित्यागेन भगवदर्पणबुद्धया ---

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ॥
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥४५॥

 स्वे स्वे तत्तद्वर्णाश्रमविहिते नतु स्वेच्छामात्रकृते कर्मणि श्रुतिस्मृत्युदितेऽभिरतः सम्यगनुष्ठानपरः संसिद्धिं देहेन्द्रियसंघातस्याशुद्धिलयेन सम्यग्ज्ञानोत्पत्तियोग्यतां लभते नरो वर्णाश्रमाभिमानी मनुष्यो मनुष्याधिकारित्वात्कर्मकाण्डस्य । देवादीनां वर्णाश्रमाभिमानित्वाभावाद्युक्त एव तद्धर्मेष्वनधिकारः । वर्णाश्रमाभिमानानपेक्षे तूषासनादावधिकारस्तेषामप्यस्तीति साधितं देवताधिकरणे । ननु बन्धहेतूनां कर्मणां कथं मोक्षहेतुत्वमु[१] पायविशेषादित्याह-स्वकर्मनिरतः सिद्धिमुक्तलक्षणां यथा येन प्रकारेण विन्दति तच्छृणु श्रुत्वा तं प्रकारमवधारयेत्यर्थः ॥ ४५ ॥

 श्री०टी०एवंभूतस्य ब्राह्मणादिकर्मणो ज्ञानहेतुत्वमाह-'स्वे स्व इति । स्वस्वाधिकारविहिते कर्मणि अभिरतः परिनिष्ठितो नरः संसिद्धिं ज्ञानयोग्यतां लभते । कर्मणां ज्ञानप्राप्तिप्रकारमाह-स्वकर्मेतिसार्धेन । स्वकर्मपरिनिष्ठितो यथा येन प्रका- रेण तत्त्वज्ञानं लभते तं प्रकारं शृणु ॥ ४५ ॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ॥
स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः॥४६॥

 म०टी०-यतोमायोपाधिकचैतन्यानन्दघनात्सर्वज्ञात्सर्वशक्तेरीश्वरादुपादानान्निमित्ताच सर्वान्तर्यामिणः प्रवृत्तिरुत्पत्तिर्मायामयी स्वाप्नरथादीनामिव भूतानां भवनधर्मणामाकाशादीनां येन चैकेन सद्रूपेण स्फुरणरूपेण व सर्वमिदं दृश्यजातं त्रिष्वपि कालेषु ततं व्याप्तं स्वात्मन्येवान्तर्भावितं कल्पितस्याधिष्ठानानतिरेकात् ।


  1. क. पासनावि ।