श्री० टी०-ब्रह्माहमित्येवं नैश्चत्येनावस्थानस्य फलमाह-ब्रह्मभूत इति ।
ब्रह्मभूतो ब्रह्मण्यवस्थितः प्रसन्नचित्तो नष्टं न शोचति । नचाप्राप्तं काङ्क्षति देहायभिमानाभावात् । अत एव सर्वेष्वपि भूतेषु समः सनरागद्वेषादिकृतविक्षेपाभावात्सर्वभूतेषु
मद्भावनालक्षणां परां मद्भक्तिं लभते ॥ १४ ॥
म०टी०-ततश्च-
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ॥ |
भक्त्या निदिध्यासनात्मिकया ज्ञाननिष्ठया मामद्वितीयमात्मानमभिजानाति साक्षात्करोति । यावान्विमुनित्यश्च यश्च परिपूर्णसत्यज्ञानानन्दघनः सदा विध्वस्तसर्वोपाधिरखण्डैकरस एकस्ताव[१] न्तं चाभिजानाति । ततो मामेवं तत्त्वतो ज्ञात्वाऽहमस्म्यखण्डानन्दाद्वितीयं ब्रह्मेति साक्षात्कृत्य विशतेऽज्ञानतत्कार्यनिवृत्तौ सर्वोपाधिशून्यतया [२]मद्रूप एव भवति । तदनन्तरं बलवत्प्रारब्धकर्मभोगेन(ण) देहपातानन्तरं नतु ज्ञानानन्तरमेव । क्त्वाप्रत्ययेनैव तल्लाभे तदनन्तरमित्यस्य वैयर्थ्यापातात् । तस्मात् " तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये " इतिश्रुत्यर्थ एवात्र दर्शितो भगवता । यद्यपि ज्ञानेनाज्ञानं निवर्तितमेव दीपेनेव तमस्तस्य तद्विरोधिस्वभावत्वात्तथाऽपि तदुपादेयमहंकारदेहादि निरुपादानमेव यावत्प्रारब्धकर्मभोगमनुवर्तते दृष्टत्वादेव । नहि 'दृष्टेऽनुपपन्नं नाम | तार्किकैरपि हि समवायिकारणनाशाद्रव्यनाशमङ्गी कुर्वद्भिनिरुपादानं द्रव्यं क्षणमात्रं तिष्ठतीत्यङ्गीकृतम् । नित्यपरमाणुसमवेतव्यणुकनाशे त्वसमवायिकारणनाशादेव द्रव्यनाशः । समवा[३]यिनिरूपितकारणनाशत्वमुभयोरनुगतमिति नाननुगमः । ये त्वसमवायिकारणनाशमेव सर्वत्र कार्यद्रव्यनाशकमिच्छन्ति तेषामाश्रयनाशस्थले क्षणद्वयमनुपादानं कार्यं तिष्ठति । एवं च तत्रैव प्रतिबन्ध[४]कसंनिपाते बहुकालावस्थितिः केन [५]वार्यते । प्रारब्धकर्मणश्च प्रतिबन्धकत्वं श्रुतिसिद्धमन्तःकरणदेहायवस्थित्यन्यथानुपपत्तिसिद्धं च । एवं शिष्यसेवकाद्यदृष्टमपि तत्प्रतिबन्धकं तदभावमपेक्ष्य च पूर्वसिद्ध एवाज्ञाननाशस्तत्कार्यमन्तःकरणादिक नाशयतीति न पुनर्ज्ञानापेक्षा । तदुक्तं-
" तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् । |
न जानामीत्यादिप्रत्ययस्तु तस्य निवृत्ताज्ञानस्याप्यज्ञाननाशजनितादनुपादानात्साक्षादात्माश्रयादेवाज्ञानसंस्कारात्तत्त्वज्ञानसंस्कारनिवर्त्यादन्तःकरणस्थित्यवधेरिति वि-