पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८ क्ष्लो०६१-६२]
५०७
श्रीमद्भगवद्गीता।


 श्री० टी०-~-किंच-स्वभावजेनेति । स्वभावः क्षत्रियत्वे हेतुः पूर्वकर्मसंस्कारस्तस्माजातेन स्वकीयेन कर्मणा शौर्यादिना पूर्वोक्तेन निबद्धो यन्त्रितस्त्वं मोहाद्यत्कर्म युद्धलक्षणं कर्तुं नेच्छसि अवशोऽपि तत्कर्म करिष्यस्येव ॥ ६० ॥

 म०टी०-स्वभावाधीनतामुक्त्वेश्वराधीनतां विवृणोति-

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ॥
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

 श्वर ईशनशीलो नारायणः सर्वान्तर्यामी " यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवीं न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति, "

"यच्च किंचिजगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः,"

 इत्यादिश्रुतिसिद्धः सर्वभूतानां सर्वेषां प्राणिनां हृद्देशेऽन्तःकरणे तिष्ठति सर्वव्या- पकोऽपि तत्राभिव्यज्यते सप्तद्वीपाधिपतिरिव राम उत्तरकोसलायां, हेऽर्जुन हे शुक्ल शुद्धान्तःकरण, एतादृशमीश्वरं त्वं ज्ञातुं योग्योऽसीति द्योत्यते । किं कुर्वस्तिष्ठति भ्रामयन्नितस्ततश्चालयन्सर्वभूतानि परतन्त्राणि मायया छद्मना यन्त्रारूढानीव सूत्रसं- चारादियन्त्रमारूढानि दारुनिर्मितपुरुषादीन्यत्यन्तपरतन्त्राणि यथा मायावी भ्रामयति तद्वदित्यर्थशेषः ॥ ११॥

 श्री०टी०-तदेवं श्लोकद्वयेन सांख्यादिमतेन प्रकृतिपारतन्त्र्यं स्वभावपारतन्त्र्यं कर्मपारतन्त्र्यं चोक्तमिदानीं स्वमतमाह-ईश्वर इति द्वाभ्याम् । सर्वभूतानां हृदयमध्य ईश्वरोऽन्तर्यामी तिष्ठति । किं कुर्वन्सर्वाणि भूतानि मायया निजशक्त्या भ्रामयस्तत्तत्कर्मसु प्रवर्तयन् , यथा दारुयन्त्रमारूढानि कृत्रिमाणि भूतानि सूत्रधारो लोके भ्रामयति तद्वदित्यर्थः । यद्वा यत्राणि शरीराणि आरूढानि भूतानि देहाभिमानिनो जीवान्भ्रामयन्नित्यर्थः । तथाच श्वेताश्वतराणां मन्त्रः-

"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च" इति ॥

 अन्तर्यामिब्राह्मणं - "य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति यमात्मा न वेद यस्याऽऽत्मा शरीरमेष त आत्माऽन्तर्याम्यमृतः " इत्यादि ॥ ६१ ॥

 म०. टी-ईश्वरः सर्वभूतानि परतन्त्राणि प्रेरयति चेत्प्राप्तं विधिप्रतिषेधशास्त्रस्य सर्वस्य पुरुषकारस्य चाऽऽनर्थक्यमित्यत्राऽऽह-

तमेव शरणं गच्छ सर्वभावेन भारत ॥
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥३२॥