पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१२
[अ०१८क्ष्लो०६७]
मधुसूदनसरस्वती श्रीधरस्वामिकृतटीकाभ्यां समेता-~-


तव्याः। अस्मिन्हि गीताशास्त्रे निष्ठात्रयं साध्यसाधनभावापन्नं विवक्षितमुक्तं च बहुधा । तत्र कर्मनिष्ठा सर्वकर्मसंन्यासपर्यन्तोपसंहृता "स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः" इत्यत्र । संन्यासपूर्वकश्रवणादिपरिपाकसहिता ज्ञाननिष्ठोपसंहृता " ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' इत्यत्र । भगवद्भक्तिनिष्ठा तूभयसाधनभूतोभयफलभूता च भवतीत्यन्त उपसंहृता सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजेत्यत्र । भाष्यकृतस्तु सर्वधर्मान्परित्यज्येति सर्वकर्मसंन्यासानुवादेन मामेकं शरणं ब्रजेति ज्ञाननिष्ठोपसंहृतेत्याहुः । भगवदभिप्रायवर्णने के वयं वराकाः ।

वचो यद्गीताख्यं परमपुरुषस्याऽऽगमगिरां
रहस्यं तद्व्याख्यामनतिनिपुणः को वितनुताम्
अहं त्वेतद्बाल्यं यदिह कृतवानस्मि कथम-
प्यहेतुस्नेहानां तदपि कुदुकायैव महताम् ॥ १६ ॥

 श्री०टी० -ततोऽपि गुह्यतममाह-सर्वेति । मद्भक्त्यैव सर्व भविष्यतीति दृढविश्वासेन विधिकैंकर्यं त्यक्त्वा मदेकशरणो भव । एवं वर्तमानः कर्मत्यागनिमित्तं पापं स्यादिति मा शुचः शोकं मा कार्षीः । यतस्त्वा त्वां मदेकशरणं सर्वपापेभ्योऽहं [१]मोक्षयिष्यामि ॥ ६६ ॥'

 म०टी०-समाप्तः शास्त्रार्थः । शास्त्रसंप्रदायविधिमधुना कथयति-

इदं ते नातपस्काय नाभक्ताय कदाचन ॥
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥६७॥

 इदं गीताख्यं सर्वशास्त्रार्थरहस्यं ते तव संसारविच्छित्तये मयोक्तं नातपस्कायासंयतेन्द्रियाय न वाच्यं कदाचन कस्यामप्यवस्थायामिति पर्यायत्रयेऽपि संबध्यते । तपस्विनेऽप्यभक्ताय गुरौ देवे च भक्तिरहिताय न वाच्यं कदाचन । तपस्विने भक्तायापि अशुश्रूषवे शुश्रूषां परिचर्यामकुर्वते च न वाच्यं कदाचन । चशब्दो वाच्यं कदाचनेतिपदद्वयाकर्षणार्थः । न च मां योऽभ्यसूयति मां भगवन्तं वासुदेवं मनुष्यमसर्वज्ञत्वादिगुणकं मत्वाऽभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेनेश्वरत्वमसहमानो द्वेष्टि यस्तस्मै श्रीकृष्णोत्कर्षासहिष्णवे तपस्विने भक्ताय शुश्रुषवेऽपि न वाच्यं कदाचनेत्यनुकर्षणार्थश्चकारः । तपस्विने भक्ताय शुश्रूषवे श्रीकृष्णानुरक्ताय च वाच्यमित्यर्थः । एकैकविशेषणाभावेऽप्ययोग्यताप्रतिपादनार्थाश्चत्वारो नकाराः । मेधाविने तपस्विने वेत्यन्यत्र विकल्पदर्शनाच्छुश्रूषागुरुभक्तिभगवदनुरक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम् । मेधातपसोः पाक्षिकत्वेऽपि भगवदनुरक्तिगुरुभक्तिशुश्रूषाणां नियम एवेति भाष्यकृतः ॥ ६७॥


  1. क.ख.ग.डच. छ. मोचयि ।