श्री०टी०-किंच-न चेति । तस्मान्मद्भक्तेभ्यो गीताशास्त्रव्याख्यातुः सकाशादन्यो मनुष्येषु मध्ये कश्चिदपि मम प्रियकृत्तमोऽत्यन्तं परितोषकर्ता नास्ति । न च
कालान्तरे भविता भविष्यति । ममापि तस्मादन्यः प्रियतरोऽधुना भुवि तावन्नास्ति ।
न च कालान्तरेऽपि भविष्यतीत्यर्थः ॥ ६९ ॥
म०टी०-अध्यापकस्य फलमुक्त्वाऽध्येतुः फलमाह-
अध्येष्यते च य इमं धर्म्य संवादमावयोः॥ |
आवयोः संवादमिमं ग्रन्थं धर्म्यं धर्मादनपेतं योऽध्येप्यतें जपरूपेण पठिष्यति ज्ञानयज्ञेन ज्ञानात्मकेन यज्ञेन चतुर्थाध्यायोक्तेन द्रव्ययज्ञादिश्रेष्ठेनाहं सर्वेश्वरस्तेनाध्येवेष्टः पूजितः स्यामिति मे मतिर्मम निश्चयः । यद्यप्यसौ गीतार्थमबुध्यमान एव जपति तथाऽपि तच्छृण्वतो मम मामेवासौ प्रकाशयतीति बुद्धिर्भवति । अतो जपमात्रादपि ज्ञानयज्ञफलं मोक्षं लभते सत्त्वशुद्धिज्ञानोत्पत्तिद्वारा । अर्थानुसंधानपूर्वकं पठतस्तु साक्षादेव मोक्ष इति किं वक्तव्यमिति फलविधिरेवायं नार्थवादः । “ श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप" इति हि प्रागुक्तम् ॥ ७० ॥
श्री०टी०-पठतः फलमाह-अध्येष्यत इति । आवयोः कृष्णार्जुनयोरिमं धर्म्यं धर्मादनपेतं संवादं योऽध्येष्यते जपरूपेण पठिष्यति तेन पुंसा सर्वयज्ञेभ्यः श्रेष्ठेन ज्ञानयज्ञेनाहमिष्टः स्यां भवेयमिति मे मतिः । यद्यप्यसौ गीतार्थमबुध्यमान एव केवलं जपति तथाऽपि मम[१] तच्छृण्वतो मामेवासौ प्रकाशयतीति बुद्धिर्भवति । यथा लोके यदृच्छयाऽपि कश्चित्कदाचित्कस्यचिन्नाम गृह्णाति तदाऽसौ मामेवायमाह्वयतीति मत्वा तत्पार्श्वमागच्छति तथाऽहमपि तस्य संनिहितो भवेयम् । अत एवाजामिलक्षत्र- बन्धुप्रमुखाना(णां) कथंचिन्नामोच्चारणमात्रेण प्रसन्नोऽस्मि । तथै[२]व तस्यापि प्रसन्नो भवेयमि[३]त्यर्थः ॥ ७० ॥
म०टी०-प्रवक्तुरध्येतुश्च फलमुक्त्वा श्रोतुरिदानीं फलं कथयति-
श्रद्धावाननमूयश्च शृणुयादपि यो नरः ॥ |
यो नरः कश्चिदपि अन्यस्योचैर्जपतः कारुणिकस्य सकाशाच्छूद्धावाञ्श्रद्धायुक्तः । तथा किमर्थमयमुच्चैर्जपत्यवद्धं वा जपतीति दोषदृष्ट्याऽसूयया रहितोऽनसूयश्च केवलं शृणुयादिमं ग्रन्थम्, अर्पिशब्दात्किमुतार्थज्ञानवान् , सोऽपि केवलाक्षरमात्रश्रोताऽपि