पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २क्ष्लो०२४]
५५
'श्रीमद्भगवद्गीता ।


 म० टी०-शस्त्रादीनां तन्नाशकत्वासामर्थ्ये तस्य तज्जनितनाशानर्हत्वे हेतुमाह-

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

 यतोऽच्छेद्योऽयमतो नैनं छिन्दन्ति शस्त्राणि । अदाह्योऽयं यतोऽतो नैनं दहति पावकः । यतोऽक्लेद्योऽयमतो नैनं क्लेदयन्त्यापः। यतोऽशोष्योऽयमतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एवकारः प्रत्येकं संबध्यमानोऽच्छेद्यत्वाद्यवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्यनर्हत्वे हेतुमाहोत्तरार्धेन-नित्योऽयं पूर्वापरकोटिरहितोऽतोऽनुत्पाद्यः । असर्वगतत्वे ह्यनित्यत्व स्यात्, “यावद्विकारं तु विभागः” इति न्यायात्पराभ्युपगतपरमाण्वादीनामनभ्युपगमात् । अयं तु सर्वगतो विभुरतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात्तदा सर्वगतो न स्यात् । अयं तु स्थाणुरविकारी । अतः सर्वगत एव । एतेन विकार्यत्वमपाकृतम् । यदि चायं चलः क्रियावान्स्यात्तदा विकारी स्याद्धटादिवत् । अयं त्वचलोऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्थापरित्यागेनावस्थान्तरापत्तिर्विक्रिया । अवस्थैक्येऽपि चलनमात्रं क्रियेति-विशेषः । यस्मादेवं तस्मात्सनातनोऽयं सर्वदैकरूपो न कस्या अपि क्रियायाः कर्मेत्यर्थः । उत्पत्त्याप्तिविकृति संस्कृत्यन्यतरक्रियाफलयोगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान्नोत्पाद्यः, अनित्यस्यैव घटादेरुत्पाद्यत्वात् । सर्वगतत्वान्न प्राप्यः परिच्छिन्नस्यैव [१] पयआदेः प्राप्यत्वात् । स्थाणुत्वादविकार्यः, विक्रियावतो[२] घृतादेव विकार्यत्वात् । अचलत्वादसंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः- "आकाशवत्सर्वगतश्च नित्यः, " "वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः, " "निष्कलं निष्क्रिय शान्तम् " इत्यादयः । " यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो[३] योऽप्सु तिष्ठन्नद्भयोऽन्तरो यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यो वायौ तिष्ठन्वायोरन्तरः " इत्याद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तदविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश्छिन्दन्ति । अयं तु शस्त्रादीनां सत्तास्फूर्तिप्रदत्वेन तत्प्रेरकस्तदन्तर्यामी । अतः कथमेनं शस्त्रादीनि स्वव्यापारविषयी कुर्युरित्यभिप्रायः । अत्र " येन सूर्यस्तपति तेजसेद्धः' इत्यादिश्रुतयोऽनुसंधेयाः । सप्तमाध्याये च प्रकटी करिष्यति श्रीभगवानिति दिक् ॥ २४ ॥

 श्री० टी०-तत्र हेतूनाहाच्छेद्य इति सार्धेन–---निरवयवत्वादच्छेद्योऽयमक्लेद्यश्च । अमूर्तत्वाददाह्यो द्रवत्वाभावादशोष्य इति भावः । इतश्च च्छेदादियोग्यो न भवति यतो


  1. के. घ. छ. घटादेः ।
  2. छ. तो घटादे ।
  3. ख. 'रो यं पृथिवी न वेद यस्य पृथिवीम न्तरो यमिति एष त आत्माऽन्तर्याम्यमृत इत्याद्याश्च श्रुतयः स ।