पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
[अ० २ क्ष्लो ०२५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


नित्यः, अविनाशी सर्वगतः सर्वत्र गतः स्थाणुः स्थिरस्वभावो रूपान्तरापत्तिशून्यः, अचलः पूर्वरूपापरित्यागी सनातनोऽनादिः ॥ २४ ॥

 म० टी०-छेद्यत्वादिग्राहकप्रमाणाभावादपि तदभाव इत्याह-अव्यक्तोऽयमित्याद्यर्धेन---

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ॥
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

 यो हीन्द्रियगोचरो भवति स प्रत्यक्षत्वाद्वयक्त इत्युच्यते । अयं तु रूपादिहीनत्वान्न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादिग्राहकमित्यर्थः । प्रत्यक्षाभावेऽप्यनुमानं स्यादित्यत आह–अचिन्त्योऽयं चिन्त्योऽनुमेयस्तद्विलक्षणोऽयम् । क्वचित्प्रत्यक्षो हि वह्नयादिगृहीतव्याप्तिकस्य धूमादेर्दर्शनात्क्वचिदनुमेयो भवति । अप्रत्यक्षं तु व्याप्तिग्रहणासंभवान्नानुमेयत्वमिति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतोदृष्टानुमानविषयत्वं दृष्टमत आह--अविकार्योऽयं यद्विक्रियावच्चक्षुरादिकं तत्स्वकार्यान्यथानुपपत्त्या कल्प्यमानमर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावानतो नार्थापत्तेः सामान्यतोदृष्टस्य वा विषय इत्यर्थः । लौकिकशब्दस्यापि प्रत्यक्षादिपूर्वकत्वात्तन्निषेधेनैव निषेधः । ननु वेदेनैव तत्र च्छेद्यत्वादि ग्रहीष्यत इत्यत आह-उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादिरूप एवायमुच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्प्रतिपादकस्यापि च्छेद्यत्वादिप्रतिपादकत्वमित्यर्थः । अत्र " नैनं छिन्दन्ति " इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभाव उक्तः । अच्छेद्योऽयमित्यादौ तस्य च्छेदादिकर्मत्वायोग्यत्वमुक्तम् । अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभाव उक्त इत्यपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनमित्यादीनां तु क्ष्लोकानामर्थतः शब्दतश्च[१] पौनरुक्त्यं भाष्यकृद्भिः परिहृतम्- " दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्गमा[२]पाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान्वासुदेवः कथं नु नाम संसारिणां बुद्धिगोचरमापन्नं तत्त्वं संसारनिवृत्तये स्यात् " इति वदद्भिः । एवं पूर्वोक्तयुक्तिभिरात्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्युपसंहरति--- तस्मादित्यर्धेन । एतादृशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन्सति शोको नोचितः कारणाभावे कार्यभावस्याऽऽवश्यकत्वात् । तेनाऽऽत्मानमविदित्वा यदन्वशोचस्तद्युक्तमेव । आत्मानं विदित्वा तु नानुशोचितुमर्हसीत्यभिप्रायः ॥ २५ ॥

 श्री० टी०-किं च अव्यक्तश्चक्षुराद्यविषयः । अचिन्त्यो मनसोऽप्यविषयः । अविकार्यः कर्मेन्द्रियाणामप्यगोचर इत्यर्थः । उच्यत इति नित्यत्वादावभियुक्तोक्तिं प्रमाणयति । उपसंहरति--तस्मादिति ॥ २५ ॥


  1. छ. ञ. °श्च न प ।
  2. ग . ज . झ . अ . 'पाद्यापाय° ।