पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[अ०२क्ष्लौ०२७]
'मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अथ चेति । अथ च यद्यप्येनमात्मानं नित्यं सर्वदा तत्तद्देहे जाते जातं मन्यसे । तथा तत्तदेहे मृते च मृतं मन्यसे, पुण्यपापोस्तत्फलभूतयोश्च जन्ममरणयारात्मगार्मित्वात् । तथाऽपि त्वं शोचितु नार्हसि ॥ २६ ॥

 म० टी०-नन्वात्मने अभूतसंप्लवस्थायित्वपक्षे नित्यत्वपक्षे च दृष्टादृष्टदुःखसंभवात्तद्भयेन शोचामीत्यत आह द्वितीय-लोकेन--

जातस्य हि ध्रुवो मृत्युर्भुवं जन्म मृतस्य च ॥
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

 हि यस्माज्जातस्य स्वकृतधर्माधर्मादिवशाल्लब्धशरीरन्द्रियादिसंबन्धस्य स्थिरस्याऽऽत्मनो ध्रुव आवश्यको मृत्युस्तच्छरीरादिविच्छेदस्तदारम्भककर्मक्षयनिमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्देहकृतकर्मफलोपभोगार्थ सानुशयस्यैव प्रस्तुतत्वान्न जीवन्मुक्ते व्यभिचारः । तस्मादेवमपरिहायें परिहर्तुमशक्येऽस्मिञ्जन्ममरणलक्षणेऽर्थे विषये त्वमेवं विद्वान्न शोचितुमर्हसि । तथा च वक्ष्यति---“ऋतेऽपि त्वां न भविष्यन्ति सर्वे ?" इति । यदि हि त्वया युद्धेऽनाहन्यमानाः एते जीवेयुरेव तदा युद्धाय शोकस्तवोचितः स्यात् । एते तु कर्मक्षयात्स्वयमेव म्रियन्त इति तत्परिहारासमर्थस्य तव दृष्टदुःखनिमित्तः शोको नोचित इति भावः । एवमदृष्टदुःखनिमितेऽपि शोके " तस्मादपरिहार्थेऽर्थे " इत्येवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतमग्निहोत्रादिवत् । तच्च " युध संप्रहारे । इत्यस्माद्धातोर्निष्पन्नं शत्रुप्राणवियोगानुकूलशस्त्रप्रहाररूपं विहितत्वादग्नीषोमयादिहिंसावन्न प्रत्यवायजनकम् । तथा च गौतमः स्मरति---" न दोषो हिंसायामाहवेऽन्यत्र व्यश्वासारथ्यनायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः" इति । ---

चात्रायोब्राह्मणविषयं गवादिप्रा"-
येत्यत्र स्पष्टी करप्यते । तथ
परिहर्तुमशक्ये तदकरणे प्रत्यवाय
यदि तु युद्धाख्यं कर्म काम्यमेव,

"य आहवेषु युध्यन्ते भूभ्यर्थम्पराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्ग योगिनो यथा" ॥

 इति याज्ञवल्क्यवचनात् , “ हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् । इति भगवद्वचनाच्च, तदाऽपि प्रारब्धस्य काम्यस्यापि अवश्यपरिसमापनीयत्वेन नित्यतुल्यत्वात्वया च युद्धस्य प्रारब्धत्वादपरिहार्यत्वं तुल्यमेव । अथवाऽऽत्मनित्यत्वपक्ष एव श्लोकद्वयमर्जुनस्य परमास्तिकस्य वेदबाह्यमताभ्युपगमासंभवात् । अक्षरयोजना तु नित्यश्चासौ देहन्द्रियादिसंबंन्धवंशाजातश्चेति नित्यजातस्तमेनमात्मानं नित्यमपि