पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०२ क्ष्लो ०१९ ]
६१
श्रीमद्भगवद्गीता ।

त्ताविद्यातत्कार्योऽपि प्रारब्धकर्मप्राबल्यात्तद्वानिव व्यहरति सर्वदा समाधिनिष्ठोऽपि व्युत्तिष्ठति व्युत्थितोऽपि पुनः समाधिमनुभवतीति प्रारब्धकर्मवैचित्र्याद्विचित्रचरित्रः प्राप्तदुष्प्रापज्ञानत्वात्सकललोकस्पृहणीयोऽत आश्चर्यवदेव भवति । तदेतत्रयमप्याश्चर्यमात्मा तज्ज्ञानं तज्ज्ञाता चेति परमदुर्विज्ञेयमात्मानं त्वं कथमनायासेन जानीया इत्यभिप्रायः । एवमुपदेष्टुरभावादप्यात्मा दुर्विज्ञेयः, यो ह्यात्मानं जानाति स एव तमन्यस्मै ध्रुवं ब्रूयात् , अज्ञस्योपदेष्टत्वासंभवात् , जानंस्तु समाहितचित्तः प्रायेण कथं ब्रवीतु । व्युत्थितचित्तोऽपि परेण ज्ञातुमशक्यः । यथा कथंचिज्ज्ञातोऽपि लाभपूजाख्यात्यादिप्रयोजनानपेक्षत्वान्न ब्रवीत्येव । कथंचित्कारुण्यमात्रेण ब्रुवंस्तु परमेश्वरवदत्यन्तदुर्लभ एवेत्याह-आश्चर्यवद्वदति तथैव चान्य [१]इति । यथा जानाति तथैव वदति ! एनमित्यनुकर्षणार्थश्चकारः । स चान्यः सर्वाज्ञजनविलक्षणः । न तु यः पश्यति ततोऽन्य इति व्याघातात् । [२]अत्रापि कर्मणि क्रियायां कर्तरि चाऽऽश्चर्यवदिति योज्यम् । तत्र कर्मणः कर्तुश्च प्रागाश्च[३]र्यवत्त्वं व्याख्यातं क्रियायास्तु व्याख्यायते । सर्वशब्दावाच्यस्य शुद्ध[४] स्याऽऽत्मनो यद्वचनं तदाश्चर्यवत् । तथा च श्रुतिः--" यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह" इति । केनापि शब्देनावाच्यस्य शुद्धस्याऽऽत्मनो विशिष्ट शक्तेन पदेन जहदजहत्स्वार्थलक्षणया कल्पितसंबन्धेन लक्ष्यतावच्छेदकमन्तरेणैव प्रतिपादनं तदपि निर्विकल्पकसाक्षात्काररूपमत्याश्चर्यमित्यर्थः । अथवा विना शक्तिं विना लक्षणां विना संबन्धान्तरं सुषुप्तोत्थापकवाक्यवत्तत्त्वमस्यादिवाक्येन यदात्मतत्त्वप्रतिपादनं तदाश्चर्यवत् , शब्दशक्तेरचिन्त्यत्वात् । नच विना संबन्धं बोधनेऽतिप्रसङ्गः, लक्षणापक्षेऽपि तुल्यत्वात् , शक्यसंबन्धस्यानेकसाधारणत्वात् । तात्पर्यविशेषान्नियम इति चेत् , न, तस्यापि सर्वान्प्रत्यविशेषात् । कश्चिदेव तात्पर्यविशेषमवधारयति न सर्व इति चेत्, हन्त तर्हि पुरुषगत एव कश्चिद्विशेषो निर्दोषत्वरूपो नियामकः । स चास्मिन्पक्षेऽपि न दण्डवारितः । तथा च यादृशस्य शुद्धान्तःकरणस्य तात्पर्यानुसंधानपुरःसरं लक्षणया वाक्यार्थबोधो भवद्भिरङ्गी क्रियते तादृशस्यैव केवलः शब्दविशेषोऽखण्डसाक्षात्कारं विनाऽपि संबन्धेन जनयतीति किमनुपपन्नम् । एतस्मिन्पक्षे शब्दवृत्त्यविषयत्वाद्यतो वाचो निवर्तन्त इति सुतरामुपपन्नम् । अयं च भगवदभिप्रायो वार्तिककारैः प्रपञ्चितः---

"दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः ।
शब्दशक्तेरचिन्त्यत्वाद्विद्मस्तं मोहहानतः ॥
अगृहीत्वैव संबन्धमभिधानाभिधेययोः ।


  1. क. छ. “ति । यो य” ।
  2. क. ग. घ. ङ. च. छ. ज. अ. तत्रापि ।
  3. क. ख. घ. छ. ज. चैत्वं व्या' ।
  4. घ. "स्याप्यात्म” ।