पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २क्ष्लो० १० ]
६३
श्रीमद्भगवद्गीता ।


" आश्चर्यों ज्ञाता कुशलानुशिष्टः " इति श्रुत्यैकवाक्यता न स्यात् , "यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः । इति भगवद्गचनविरोधश्चेति विद्वद्भिरविनयः क्षन्तव्यः । अथवा न चैव कश्चिदित्यस्य सर्वत्र संबन्धः कश्चिदेनं न पश्यति न वदति न शृणोति श्रुत्वाऽपि न वेदेति पञ्च प्रकारा उक्ताः कश्चित्पश्यत्येव न वदति काश्चित्पश्यति च वदति च कश्चित्तद्वचनं शृणोति च तदर्थं जानाति च कश्चिच्छ्रूत्वाऽपि न जानाति च कश्चित्तु सर्वबहिर्भूत इति । अविद्वत्पक्षे तु असंभावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवंदनश्रवणेष्विति निगदव्याख्यातः श्लोकः । चतुर्थपादे तु दृष्ट्वोक्त्वा श्रुत्वाऽपीति योजना ॥ २९ ॥

 श्री० टी०-कुतस्तर्हि विद्वांसोऽपि लोके शोचन्ति आत्मज्ञानादेवेत्याशयेनाऽऽत्मनो दुर्विज्ञेयतामाह-आश्चर्यवदिति । कश्चिदेनमात्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्नाश्चर्यवत्पश्यति सर्वगतस्य नित्यज्ञानानन्दस्वभावस्याऽऽत्मनोऽलौकिकत्वादैन्द्रजालिकवदघटमानं पश्यन्निव विस्मयेन पश्यति असंभावनाभिभूतत्वात् । तथाऽऽश्चर्यवदेवान्यो वदति च शृणोति चान्यः । कश्चित्पुनर्विपरीतभावनाभिभूतः श्रुत्वाऽपि नैव वेद । चशब्दादुक्त्वाऽपि दृष्ट्वाऽपि न सम्यग्वेदेति द्रष्टव्यम् ॥ २९ ॥

 म० टी०-इदानीं सर्वप्राणिसाधारणभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति--

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ॥
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

 सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही लिङ्गदेहोपाधिरात्मा वध्यो न भवतीति नित्यं नियतं यस्मात्तस्मात्सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादिभावापन्नान्युद्दिश्य त्वं न शोचितुमर्हसि । स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात् , लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्याऽऽत्मनो वा शोच्यत्वं युक्तमिति भावः ॥ ३० ॥ श्री० टी०-तदेवं दुर्योधमात्मतत्त्वं संक्षेपेणोपदिशन्नशोच्यत्वमुपसंहरति--- देहीति ॥ ३० ॥

 म० टी०---तदेवं स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयविवेकेनाऽऽत्मस्वरूपमभिहितवान् । संप्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव करुणादिदोषनिबन्धनमसाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वेऽपि युद्धस्य स्वधर्मत्वेनाधर्मत्वाभावं बोधयति भगवान्---