पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० २क्ष्लो०४१-४२]
७३
श्रीमद्भगवद्गीता ।


 म० टी०-एतदुपपादनाय तमेतमितिवाक्यविहितानामैकार्थत्वमाह-

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ॥
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥

 हे कुरुनन्दनेह श्रेयोमार्गे तमेतमितिवाक्ये वा व्यवसायात्मिकाऽऽत्मतत्त्वनिश्चयात्मिका बुद्धिरेकैव चतुर्णामाश्रमाणां साध्या विवक्षिता “वेदानुवचनेन' इत्यादौ तृतीयाविभक्त्या प्रत्येकं निरपेक्षसाधनत्वबोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वेऽपि दर्शपूर्णमासाभ्यामितिवद्वंद्वसमासेन यदग्नये च प्रजापतये चेतिवञ्चशब्देन [वा] न तथाऽत्र किंचित्प्रमाणमस्तीत्यर्थः । सांख्याविषया योगविषया च बुद्धिरेकफलत्वादेका व्यवसायात्मिका सर्वविपरीतबुद्धीनां बाधिका निर्दोषवेदवाक्यसमुत्थत्वादितरास्त्वव्यवसायिनां बुद्धयो बाध्या इत्यर्थ इति भाष्यकृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैकनिष्ठेव बुद्धिरिह कर्मयोगे भवतीत्यर्थमाहुः । सर्वथाऽपि तु ज्ञानकाण्डानुसारेण * स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्" इत्युपपन्नम् । कर्मकाण्डे पुनर्बहुशाखा अनेकभेदाः कामानामनेकभेदत्वात् , अनन्ताश्च कर्मफलगुणफलादिप्रकारोपशाखाभेदात् , बुद्धयो भवन्त्यव्यवसायिनां तत्तत्फलकामानाम् । बुद्धीनामानन्त्यप्रसिद्धिद्योतनार्थो हिशब्दः । अतः काम्यकर्मापेक्षया महद्वैलक्षण्यं शुद्धयर्थकर्मणामित्यभिप्रायः ॥ ४१ ॥

 श्री० टी०–कुत इत्यपेक्षायामुभयोर्वैषम्यमाह-व्यवसायेति । इहेश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका परमेश्वरभक्त्यैव ध्रुवं तरिष्यामीतिनिश्चयात्मिकैवैकनिष्ठेव बुद्धिर्भवति । अव्यवसायिनां तु बहिर्मुखानां(णां) कामिनां कामानामानन्त्यादनन्ताः । तत्रापि हि कर्मफलगुणफला[१]दिप्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यनैमित्तिकं कर्म किंचिदङ्गवैगुण्येऽपि न नश्यति । यथा शक्नुयात्तथा कुर्यादिति हि तद्विधीयते । न च वैगुण्यम्, ईश्वरोद्देशेनैव वैगुण्योपरमात् । न तु तथा काम्यं कर्म[२] । अतो महद्वैषम्यमिति भावः ॥ ४१ ॥

 म० टी०-अव्यवसायिनामपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वादित्याशङ्कय प्रतिबन्धकसद्भावान्न भवतीत्याह त्रिभिः-

यामिमां पुष्पितां वाचं प्रवदन्यविपश्चितः ॥
वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ॥ ४२ ॥


  1. क. घ. च. छ. ज. ञ. 'दिमे ।
  2. क. ज. ञ. “र्म । अग्निहोत्रं जुहुयात्स्वर्गकामः, दक्षेन्द्रियकामो जुहुयात् । अ° ।