पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०२क्ष्लो ०४५ ]
७५
श्रीमद्भगवद्गीता ।


अधिकरणे विषये वा सप्तम्यास्तुल्यत्वात् । विधीयत इति कर्मकर्तरि लकारः । समाधीयतेऽस्मिन्सर्वमिति व्युत्पत्त्या समाधिरन्तःकरणं वा परमात्मा वेति नाप्रसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं व्यवसायात्मिका बुद्धिर्नोत्पद्यत इति व्याख्याने तु रूढिवाऽऽदृता । अयं भावः-यद्यपि काम्यान्यग्निहोत्रादीनि शुद्धयर्थेभ्यो न विशिष्यन्ते तथाऽपि फलाभिसंधिदोषान्नाऽऽशयशुद्धिं संपादयन्ति । भोगानुगुणा तु शुद्धिर्न ज्ञानोपयोगिनी । एतदेव दर्शयितुं भोगैश्वर्यप्रसक्तानामिति पुनरुपात्तम् । फलाभिसंधिमनुसारेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिमादधतीति सिद्धं विपश्चिदविपश्चितोः फलवे पम् । विस्तरेण चैतदग्रे प्रतिपादयिष्यते ॥ ४२ ॥ ४३ ॥ ४४ ॥

 श्री० टी -ननु कामिनोऽपि कष्टान्कामा[१]न्विहाय व्यवसायात्मिकामेव बुद्धिं किं न कुर्वति तत्राऽऽह-यामिति । पुष्पितां पुष्पितविषलतावदापातरमणीयां प्रकृष्टां परमार्थफलपरामेव वदन्ति वाचं स्वर्गादिफलश्रुतिं ये तेषां तया वाचाऽपहृतचेतसां व्यवसाय:त्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किमिति तथा वदन्ति यतोऽविपश्चित मूढाः । तत्र हेतुः-वेदे ये वादा अर्थवादाः ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" “अपाम सोमममृता अभूम' इत्याद्यास्तेष्वेव रताः प्रीताः । अत एवातः परमन्यदीश्वरतत्त्वं प्राप्यं नास्तीति[२]वदनशीलाः ॥ ४२ ॥

 अत एव-कामात्मान इति । कामात्मानः कामाकुलचित्ताः । अतः स्वर्ग एवं परः पुरुषार्थो येषां ते, जन्म च तत्र कर्माणि च तत्फलानि च प्रददातीति तथा ताम्, भोगैश्वर्ययोगतिं प्राप्तिं प्रति साधनभूता ये क्रियाविशेषास्ते बहुला यस्यां तां प्रवदन्तीत्यनुषङ्गः ॥ ४३ ॥

 ततश्च-भोगैश्वर्यप्रसक्तानामिति । भोगैश्वर्ययोः प्रसक्तानामाभिनिविष्टानां तया पुष्पितया वाचाऽपहृतमाकृष्टं चेतो येषां तेषां समाधिश्चित्तैकाग्र्यं परमेश्वरैकाग्र्याभिमुखत्वं तस्मिन्निश्चयात्मिका बुद्धिर्न विधीयते । कर्मकर्तरि प्रयोगः, नोत्पद्यत इत्यर्थः ॥ ४४ ॥

  म० टी०---ननु सकामानां मा भूदाशयदोषाध्यवसायात्मिका बुद्धिः, निष्कामानां(णां) तु व्यवसायात्मकबुद्धया कर्म कुर्वतां कर्मस्वाभाव्यात्स्वर्गादिफलप्राप्तौ ज्ञानप्रतिबन्धः समान इत्याशङ्कयाऽऽहं---

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ॥
निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥

प्रयाणां गुणानां कर्म नैगुण्यं काममूलः संसारः । स एव प्रकाश्यत्वेन विषयो


  1. ख. घ. ङ. च. छ, ज. झ. “भान्वि ' ।
  2. क. अ. 'वचन' ।