पृष्ठम्:श्रीमद्भगवद्गीता.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
[अ० २क्ष्लो०४६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


येषां तादृशा वेदाः कर्मकाण्डात्मका यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः । न हि सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति विनियोगेऽपि सकृदनुष्ठानात्सर्वफलप्राप्तिर्भवति तत्तत्कामनाविरहात् । यत्फलकामनयाऽनुतिष्ठति तदेव फलं तस्मिन्प्रयोग इति स्थितं योगसिद्ध्यधिकरणे । यस्मादेवं कामनाविरहे फलविरहस्तस्मात्त्वं निस्त्रैगुण्यो निष्कामो भव हेऽर्जुन । एतेन कर्मस्वाभाव्यात्संसारो निरस्तः । ननु शीतोष्णादिद्वंद्वप्रतीकाराय वस्त्राद्यपेक्षणात्कुतो निष्कामत्वमत आह-निर्द्वद्वः सर्वत्र भवेति संबध्यते । मात्रास्पर्शास्त्वित्युक्तन्यायेन शीतोष्णादिद्वंद्वसहिष्णुर्भव । असह्य दुःखं कथं वा सोढव्यमित्यपेक्षायामाह-नित्यसत्त्वस्थो नित्यमचञ्चलं यत्सत्वं धैर्यापरपर्यायं तस्मिस्तिष्ठतीति तथा । रजस्तमोभ्यामभिभूतसत्त्वो हि शीतोष्णादिपीडया मरिष्यामीति मन्वानो धमाद्विमुखो भवति । त्वं तु रजस्तमसी अभिभूय सत्वमात्रालम्बनो भव । ननु शीतोष्णादिसहनेऽपि क्षुत्पिपासादिप्रतीकारार्थं किंचिदनुपात्त मुपादेयमुपात्तं च रक्षणीयमिति तदर्थं यत्ने क्रियमाणे कुतः सत्त्वस्थत्वमित्यत आहनिर्योगक्षेमः, अलब्धलाभो योगः, लब्धपरिरक्षणं क्षेमस्तद्रहितो भव चित्तविक्षेपकारिपरिग्रहरहितो भवेत्यर्थः । न चैवं चिन्ता कर्तव्या कथमेवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योगक्षेमादि निर्वाहयिष्यतीत्याह-आत्मवान् , आत्मा परमात्मा ध्येयत्वेन योगक्षेमादिनिर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्वकामनापरित्यागेन परमेश्वरमाराधयतो मम स एव देहयात्रामात्रमपेक्षितं संपादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्यर्थः । आत्मवानप्रमत्तो भवेति वा ॥ ४९ ॥

 श्री टी---ननु च यदि स्वर्गादिकं परमं फलं न भवति तर्हि किमिति वेदैस्तत्साधनतया कर्माणि विधीयन्ते तत्राऽऽह-त्रैगुण्यविषया इति । त्रिगुणात्मका: सकामा येऽधिकारिणस्तद्विषयास्तेषां कर्मफलसंबन्धप्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्काम भव । तत्रोपायमाह-निर्द्वद्वः सुखदुःखशीतोष्णादियुगुलानि द्वंद्वानि तद्रहितो भव, तानि सहस्वेत्यर्थः । कथमित्यत्राऽऽह-नित्यसत्त्वस्थः सन्धैर्यमवलम्ब्येत्यर्थः । तथा निर्योगक्षेमः, अप्राप्तस्वीकारो योगः, प्राप्तपरिपालनं क्षेमस्तद्रहितः । आत्मवानप्रमत्तः । नहि द्वंद्वाकुलस्य योगक्षेमव्यापृतस्य च प्रमादिनस्त्रैगुण्यतिक्रमः संभवतीति ॥ ४५ ॥

 म० टी०-न चैवं शङ्कनीयं सर्वकामनापरित्यागेन कर्म कुर्वन्नहं तैस्तैः कर्मजनितैरानन्दैर्वञ्चितः स्यामिति । य्स्मात्---

यस्मात्यावानर्थं उदपाने सर्वतःसंप्लुतोदके ॥
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥