पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०१क्ष्लो०२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


गीता व्याख्यायते यस्याः पाठमा[१]त्रप्रयत्नतः ॥
सेयं सुबोधिनी टीका सदा ध्येया[२] मनीषिभिः ॥ ४ ॥

 इह खलु सकललोकहितावतारः सकलवन्दितचरणः परमकारुणिको भगवान्देवकीनन्दनस्तत्वाज्ञानविज़ृम्भितशोक मोहविभ्रंशितविवेकतया निजधर्मत्यागपरधर्माभिसंधिपरमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबन्ध । तत्र के प्रायशः श्रीकृष्णमुखनिःसृतानेव श्लोकानलिखत् । कांश्चित्तत्संगतये स्वयं व्यरचयत् । यथोक्तं गीतामाहात्म्ये--

"गीताः सुगीताः कर्तव्याः किमन्यैः शास्त्रविस्तरैः ।
याः स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृताः इति ॥

 तत्र तावद्धर्मक्षेत्र इत्यादिना विषीदन्नदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसं- वादप्रस्तावाय कथा निरूप्यते । ततः परमा समाप्तेस्तयोर्धर्मज्ञानार्थसंवादः । तत्र धर्मक्षेत्र इत्यनेन श्लोकेन धृतराष्ट्रेण हस्तिनापुरस्थितं स्वसारथिं समीपस्थं संजयं प्रति कुरुक्षेत्रवृन्तान्ते पृष्टे संजयो हस्तिनापुरस्थितोऽपि व्यासप्रसादाल्लब्धदिव्यचक्षुः कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्निव धृतराष्ट्राय निवेदयामास-दृष्ट्वा तु पाण्डवानीकमित्यादिना ।

  धर्मक्षेत्र इति । भोः संजय धर्मभूमौ कुरुक्षेत्रे मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्भुमिच्छन्तः समवेता मिलिताः सन्तः किं कृतवन्तः ॥ १ ॥

 म०टी०एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य संजयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनः--

संजय उवाच-
 दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ॥
 आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥

 तत्र पाण्डवानां दृष्टभयसंभावनाऽपि नास्ति अदृष्टभयं तु भ्रान्त्याऽर्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते । स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु मा ग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति--- दृष्ट्वेति । पाण्डुसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिः स्थापितं दृष्ट्वा


  1. क. अ. ‘मात्राय ।
  2. ख. सेन्या ।