पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो०७२ ]
९३
श्रीमद्भगवद्गीता ।

 सर्वान्बाह्यान्गृहक्षेत्रादीनान्तरान्मनोराज्यरूपान्वासनामात्ररूपांश्च पथि गच्छतस्तृणस्पर्शरूपान्कामांस्त्रिविधान्विहायोपेक्ष्य शरीरजीवनमात्रेऽपि निस्पृहः सन् । यतो निरहंकारः शरीरेन्द्रियादाक्यमहमित्यभिमानशून्यः, विद्यावत्वादिनिमित्तात्मसंभावनारहित इति वा । अतो निर्ममः शरीरयात्रामात्रार्थेऽपि प्रारब्धकर्माक्षिप्ते कौपीनाच्छादनादौ ममेदमित्यभिमानवर्जितः सन्यः पुमांश्चरति प्रारब्धकर्मवशेन भोगान्भुङ्के यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतः स्थितप्रज्ञः शान्ति सर्वसंसारदुःखोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमधिगच्छति ज्ञानबलेन प्राप्नोति । तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् ॥ ७१ ॥

 श्री० टी०-यस्मादेवं तस्मात्-विहायेति । प्राप्तान्कामान्विहाय त्यक्त्वोपेक्ष्याप्राप्तेषु च निःस्पृहः । यतो निरहंकारः । अत एव तद्भोगसाधनेषु निर्ममः सन्नन्तर्दृष्टिभूत्वा यश्चरति प्रारब्धवशेन भोगान्भुङ्क्ते यत्र क्वापि गच्छ[१]ति वा स शान्तिं प्राप्नोति ॥ ७१ ॥

 म० टी०-तदेवं चतुर्णां प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि । संप्रति कर्मयोगफलभूतां सांख्यनिष्ठां फलेन स्तुवन्नुपसंहति----

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासि-

क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-

वादे सांख्ययोगो नाम द्विती-

योऽध्यायः ॥ २ ॥

 एषा स्थितप्रज्ञलक्षणव्याजेन कथिता, एषा तेऽभिहिता सांख्ये बुद्धिरिति च प्रागुक्ता स्थितिर्निष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया हे पार्थैनां स्थिति प्राप्य यः कश्चिदपि पुनर्न विमुह्यति । न हि ज्ञानबाधितस्याज्ञानस्य पुनः संभवोऽस्ति अनादित्वेनोत्पत्त्यसंभवात् । अस्यां स्थितावन्तकालेऽपि अन्त्येऽपि वयसि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं निवृतिं ब्रह्मरूपं निर्वाणमिति वा, ऋच्छति


  1. ख. ग. इ. छ. ज. छतीति ।