पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
[अ० ३ श्लो० १]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


गच्छत्यभेदेन । किमु वक्तव्यं यो ब्रह्मचर्यदेव संन्यस्य यावज्जीवमस्यां ब्राह्मयां स्थिताववतिष्ठते स ब्रह्मनिर्वाणमृच्छतीत्यपिशब्दार्थः ॥ ७२ ॥

ज्ञानं तत्साधनं कर्म सत्त्वशुद्धिश्च तत्फलम् ॥
तत्फलं ज्ञाननिष्ठेवेत्यध्यायेऽस्मिन्प्रकीर्तितम् ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरखतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम द्वितीयोऽध्यायः ॥ २ ॥

 श्री० टी०-उक्तां ज्ञाननिष्ठां स्तुवन्नुपसंहरति-एषेति । ब्राह्मी स्थितिर्ब्रह्म- ज्ञानानिष्ठैषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान्प्राप्य न विमुह्यति पुनः संसारमोहं न प्राप्नोति । यतोऽन्तकाले मृत्युसमयेऽपि अस्यां क्षणमात्रमपि स्थित्वा ब्रह्म[१][२][३]णि निर्वाणं लयमृच्छति प्राप्नोति किं पुनर्वक्तव्यं बाल्यमारभ्य स्थित्वा प्राप्नोतीति ॥ ७२ ॥

इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां

द्वितीयोऽध्यायः ॥ २ ॥

 अथ तृतीयोऽध्यायः ।

 म० टी०–एवं तावत्प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हि---आदौ निष्कामकर्मनिष्ठा । ततोऽन्तःकरणशुद्धिः । ततः शमदमादिसाधनपुरःसरः सर्वकर्मसंन्यासः । ततो वेदान्तवाक्यविचारसहिता भगवद्भक्तिनिष्ठा । ततस्तत्त्वज्ञाननिष्ठा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः । जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिर्दैवसंपदाख्या च शुभवासना तदुपकारण्यादेया । आसुरसंपदाख्या त्वशुभवासना तद्विरोधिनी हेया । दैवसंपदोऽसाधारणं कारणं सात्त्विकी श्रद्धा । आसुरसंपदस्तु राजसी तामसी चेति हेयोपादेयविभागेन कृत्स्नशास्त्रार्थपरिसमाप्तिः । तत्र " योगस्थः कुरु कर्माणि " इत्यादिना सुत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्यविशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्चयते । ततः शुद्धान्तःकरणस्य शमदमादिसाधनसंपत्तिपुरःसरा “ विहाय कामान्यः सर्वान् । इत्यादिना सूत्रिता सर्व कर्मसंन्यासनिष्ठा संक्षेपविस्तररूपेण पञ्चमषष्ठाभ्याम् । एतावता


  1. ख. ध. व. छ. ज. झ. ह्मनि ।
  2. ग. “ह्मनिवणं ब्रह्मणि ।
  3. घ. तमा क्ष्रे ।