पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ३ क्ष्लो० १]
९५
श्रीमद्भगवद्गीता ।


च त्वंपदार्थोऽपि निरूपितः । ततो वेदान्तवाक्यविचारसहिता “युक्त आसीत मत्परः इत्यादिना सूचिताऽनेकप्रकारा भगवद्भक्तिनिष्ठाऽध्यायषट्केन प्रतिपाद्यते । तावता च तत्पदार्थोऽपि निरूपितः । प्रत्यध्यायं चावान्तरसंगतिमवान्तरप्रयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस्तत्त्वंपदार्थेक्यज्ञानरूपा " वेदाविनाशिनं नित्यम् ' इत्यादिना सूत्रिता तत्त्वज्ञाननिष्ठा त्रयोदशे प्रकृति पुरुषविवेकद्वारा प्रपञ्चिता । ज्ञाननिष्ठायाश्च फलं " त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन " इत्यादिना सूत्रिता त्रैगुण्यनिवृत्तिश्चतुर्दशे सैव जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता । “तदा गन्तासि निर्वेदम्” इत्यादिना सूत्रता परवैराग्यनिष्ठा संसारवृक्षच्छेदद्वारेण पञ्चदशे । “दुःखेष्वनुद्विग्नमनाः ! इत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी संपदादेया यामिमां पुष्पितां वाचम् ” इत्यादिना सूत्रिता तद्विरोधिन्यासुरी संपञ्च हेया षोडशे । दैवसंपदोऽसाधारणं कारणं च सात्त्विकी श्रद्धा " निर्द्वद्वो नित्यसत्त्वस्थः " इत्यादिना सूत्रता तद्विरोधिपरिहारेण सप्तदशे । एवं सफला ज्ञाननिष्ठाऽध्यायपञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्तसर्वोपसंहार इति कृत्स्नगीतार्थसंगतिः । तत्र पूर्वाध्याये सांख्यबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्ता----" एषा तेऽभिहिता सांख्ये बुद्धिः ' इति । तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता " योगे त्विमां शृणु " इत्यारभ्य " कर्मण्येवाधिकारस्ते मा ते सङ्गोऽस्त्वकर्मणि " इत्यन्तेन । न चानयोर्निष्ठयोरधिकारिभेदः स्पष्टमुपदिष्टो भगवता । न चैकाधिकारिकत्वमेवाभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यम् । “ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय " इति कर्मनिष्ठाया बुद्धिनि- ष्ठापेक्षया निकृष्टत्वाभिधानात् ।“यावानर्थ उदपाने" इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्य दर्शितत्वात् । स्थितप्रज्ञलक्षणमुक्त्वा च–“एषा ब्राह्मी स्थितिः पार्थ' इतिसप्रशंसं ज्ञानफलोपसंहारात् । “या निशा सर्वभूतानाम्' इत्यादौ ज्ञानिनो द्वैतदर्शनाभावेन कर्मानुष्ठानासंभवस्य चोक्तत्वात् । अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् । " तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽययनाय " इति श्रुतेश्च । ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोर्ज्ञानकर्मणोः समुच्चयासंभवाद्भिन्नाधिकारिकत्वमेवास्तु । सत्यमेवं संभवति एकमर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञाननिष्ठोपदेष्टुमुचिता न वा ज्ञानाधिकारिणं प्रति कर्मनिष्ठा । एकमेव प्रति विकल्पेनोभयोपदेश इति चेत् । न, उत्कृष्टनिकृष्टयोर्विकल्पानुपपत्तेः । अविद्यानिवृत्त्युपलक्षितात्मस्वरूपे मोक्षे तारतम्यासंभवाच्च । तस्माज्ज्ञानकर्मनिष्ठयोभिन्नाधिकारिकत्व एक प्रत्युपदेशायोगादेकाधिकारिकत्वे च विरुद्ध[१]योः समुच्चयासंभवात्कर्मापेक्षया ज्ञानप्राशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे चोत्कृष्ट मनायाससाध्यं ज्ञानं विहाय निकृष्टमनेकायासबहुलं कर्मानुष्ठातुमयोग्यमिति मत्वा पर्याकुलीभूतबुद्धिः--


  1. ख. ज. द्ध्फलयोः ।