पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
[अ ०३ क्ष्लो०१-२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अर्जुन उवाच--
 ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ॥
 तत्किं कर्मणे धोरे मा नियोजयसि केशव ॥१॥

 हे जनार्दन सर्वजनैरर्द्यते याच्यते स्वाभिलषितसिद्धय इति त्वं तथाभूतो मयाऽपि श्रेयोनिश्वयार्थं याच्यस इति नैवानुचितमिति संबोधनाभिप्रायः । कम॑णो निष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशस्ततरा चेद्यदि ते तव मता तत्तदा किं कर्मणि घेरि हिंसाद्यनेकायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्त इत्यादिना विशेषेण प्रेरयति हे केशव सर्वेश्वर । सर्वेश्वस्य सर्वेष्टदायिनस्तव मां भक्तं शिष्यस्तेऽहं शाधि मामित्यादिना त्वदेकशरणतयोपसन्नं प्रति प्रतारणा नोचितेत्यभिप्रायः ॥ १ ॥

 श्री टी०-शोकपङ्कनिमग्नं यः सांख्ययोगोपदेशतः ॥

  उज्जहारार्जुनं भक्तं स कृष्णः शरणं मम ॥ १ ॥

 एवं तावदशोच्यानन्वशोचस्त्वमित्यादिना प्रथमं मोक्षप्ताधनत्वेन देहात्मविवेकबुद्धिरक्ता । तदनन्तरमेषा तेऽभिहिता सांख्ये -बुद्धिर्योगे त्विमां शृण्वित्यादिना कर्म चोक्तम्‌ । न च तयोर्गुणप्रधानभावः स्पष्टं दर्शितः । तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निष्कामत्वनियतेन्द्रियत्वनिरहंकारत्वा्द्यभिधानादेषा ब्राह्मी स्थितिः पार्थेति सप्रशंपमुपसंहाराच्च बुद्धिकर्मणोर्म्॑ध्ये बुद्धेः श्रैष्ठ्यं भगवतोऽभिमतं मन्वानः [ अर्जुनउवाच }-- ज्यायसीं चेदिति । कर्मणः सकाशान्मोक्षान्तरङ्गत्वेन बुद्धिज्यार्यस्यधिक[१]तरा श्रेष्ठा चेत्तव संमता तर्हि किमर्थं तस्साद्युध्यस्वेति तस्मादुत्तिष्ठेति च वारं वारं वदन्धोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयति ॥ १॥

 म० टी०--ननु नाहं कंचिदपि प्रतारयामि किं पुनस्त्वामतिप्रियं, त्वं तु किं मे प्रतारणाचिह्नं पश्यसीति चेत्तराऽऽह--

व्यामिश्रेणेव वाक्येन बुध्धिं मोहयसीव मे॥
तदेकं वद्‌ निश्चित्य येन श्रेयोऽहमाप्तुयाम्‌ ॥ २॥

 तव वचनं व्यामिश्रं न भवत्येव मम त्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसंदेहाव्द्यामिश्रं संकीर्णार्थमिव ते यद्वाक्यं मां प्रति ज्ञानकर्मनिष्ठाद्वयप्रतिपादकं तेन वाक्येन चं मे मम मन्दबुद्धेर्वाक्यतात्तर्यापरिज्ञानाद्‌बुद्धिमन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव। परमकारुणिकत्वात्त्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहो भवतीतीवशब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुञ्चयानुपपत्तेरेकार्थत्वाभावेन च विकल्पानुपपत्तेः प्रागुक्ते- र्थद्यधिकाकारिभेदं मन्यते तदैकं मां प्रति विरुद्धयोर्निष्टयोरुपदेशायोगात्तज्ज्ञानं वा कर्म


  1. घ. "तमाक्ष्रे ।