46 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता स्य (त)त्र येषां मोक्षप्राधान्यं तैरेव विषयाः सेव्या इत्युच्यते- देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ देवानिति | देवाः क्रीडाशीला: 1 इन्द्रियवृत्तयः करणे- श्वर्यो देवता रहस्यशास्त्र प्रसिद्धाः, ताः अनेन कर्मणा तर्पयत, ययासंभवं विषयान् भक्षयतेत्यर्थः । तृप्ताश्च सत्यस्ता वो2 सुष्मान् आत्मन एव स्वरूपमातोचितान् अपवर्गान् भावयन्तु, स्वात्मस्थितियोगत्वात् । एवमनवरतं व्युत्थावसमाधिसमय- परम्परायाम् इन्द्रियतर्पणतदात्म साद्भावलक्षणे' परस्परभावने सति शीघ्रमेव परमं श्रेयः परस्परभेदविगलनलक्षणं ब्रह्म प्राप्स्यथ ॥ ११ ॥ न केवलमित्थमपवर्गे, यावत्सिद्धिलाभेऽपि अयं मार्गः [ अभ्यसनीय] इत्याह - इष्टान् भावान् (१) हि वो देवाः दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः ॥ १२ ॥ इष्टाविति । यज्ञतपितानि हि इन्द्रियाणि स्थिति बध्व- न्ति यत्नक्वापि ध्येयादौ इति । अत एव तद्व्यापरे सति तेषां विषयाणां स्मृतिसंकल्पध्यानादिना भावाः विषया: इन्द्रियैरेव 1. Kीडनशीला: 2. S सत्यो वो 3. S-चितापवर्गान् 4. S - रतव्युत्थान- 5. B सद्भाव -
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति