47 तृतीयोऽध्यायः दत्ताः । यदि तेषामेवोपभोगाय विषया व दीयन्ते तर्हि स्तेन- त्वं चौर्यं स्यात्, छद्मचारित्वात् । उक्तं हि पूर्वमेव भगवता 'मूढाचारः स उच्यते' (II, 6) इति । अतोऽयं वाक्यार्थः - यः सुखोपायं सिद्धिम् अपवर्ग वा प्रेप्सति, तेन इन्द्रिय कौतुकविवृत्ति- मात्रफलतयैव भोगा यथोपवतमासेव्या इति ॥ १२ ॥ । यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुजते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥ यज्ञशिष्टेति । अवश्य कर्तव्यतारूपशासनमहिमायातान् भोगान् येऽश्नन्ति अवान्तरव्यापारमाततया अत एव च पृथक् फलत्वाभावाङ्गतया; अथ च इन्द्रियात्मकदेवगणतपंणलक्षण- यज्ञादवशिष्टम् अन्तःसारस्वात्मस्थित्यानन्दलक्षणविघसं येऽश्न- न्ति, तत्वारूढा 2 भवन्ति; तदुपादेयोपायतया तु विषयभोगं वाञ्छन्ति, ते सर्व किल्बिषैः शुभाशुभैः मुच्यन्ते । ये त्वात्मकारणा- दिति- अविद्यावथात् स्थूलमेव विषयभोगं परत्वेन + मन्वाना: 'आत्मार्थमिदं वयं कुर्म' इति कुर्वते, त एवाधं शुभाशुभात्मक भन्ते ॥ १३ ॥ अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥ S.K omit विषया: 1. 2 B तनामूढाः 3. S तत्रोपादे- 4. S -भोगपरत्वेन
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१०८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति