पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः अत्र संग्रहश्लोकः- विधत्ते कर्म यत्किश्चित् अक्षेच्छामातपूर्वंकम् । तेनैव शुभभाज: स्युः तृप्ता: करणदेवताः ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपा विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे चतुर्थोऽध्यायः 83 ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी | - श्लो. १६-१७ (व्या) उपतापाभाव: - उपतापध्वंसः || श्लो. २२(व्या) अन्यथेत्यादि । इदमुपलक्षणम्- कृत्वेति क्त्वा प्रत्ययार्थसमान कर्तृ कत्वस्य अन्यथानुपपत्तिरित्यपि बोध्यम् ॥ 1. B कारण- N कुरुत श्लो. २४ (व्या) ब्रह्मणि अर्पणमिति । अस्मिन् प्रथम- व्याख्यापक्षे योगिनः समाधियुक्तस्य परब्रह्मप्राप्तिः प्रकृतगीता- श्लोकेन प्रतिपादिता भवति । अन च पक्षे ब्रह्महविरित्यव ब्रह्मपदं ब्रह्म कार्यजीवपरम् तस्मिंश्च हविष्ट्वारोपः । ब्रह्माग्ना- विति प्रशान्तब्रह्मणि अग्नित्वारोपः । ब्रह्मणेत्यत्त प्रकृत्यर्थः कर्म तृतीयार्थ: करणत्वम् । इतिशब्दोऽध्याहार्यः स च प्रकृतपद्यपूर्वा- धर्थमनुवदति; तस्य चार्थस्य ब्रह्मात्मककर्म समाधिर्यस्येति बहुव्री ह्यर्थैकदेशे अभेदेनान्वयः । एतादृशव्याख्याने क्लेशं परि- चिन्त्य व्याख्यानान्तरमाह - यदि वेत्यादिना । अस्मिंश्च पक्षे ज्ञानिना यजमानेवानुष्ठीयमानकर्मणः ब्रह्मप्राप्तिः फल मिति -