चतुर्थोऽध्यायः 85 अप अधः अनितीत्यपानः तस्मिन् अपाने; तस्य व्याख्या अस्त यातीति । यातीति याधातोः शवन्तात् सप्तमी । एवमुक्तरीत्या स्वाध्यायः अहंध्यानात्मकः इति तस्य ज्ञान- यज्ञादभेद एवेति दर्शयितुं स्याध्यायज्ञानयज्ञाश्चेति मूलं स्वाध्या- यात्मकज्ञानसूचकमिति तदभिप्रायमनुवदन्नाह-अतश्चेत्यादि । - - उक्तव्यापार - परिशीलनव श-परिपूरितस्वात्म-शिष्यात्ममनो- रथा इति समस्तं पवं प्राणायामपरायणा इति मूलस्यार्थ- वर्णवरूपम् । तथाहि - परिशीलनशब्दः सामान्यतो नपुंसकः । प्राणायामपरायणा इत्यस्य प्र, अन, बा, अय, अम, पर, अयन इत्यवयव सप्तकत्वादेवमर्थोऽभिप्रेत इव । प्रकृष्टस्य अनस्य प्राण- नस्य यः आ परितः अयः गमनव्यापारः शीलनात्मकः - गत्य • र्थानां ज्ञानार्थकत्वात् तेन तद्वशेन अमं संभक्ति: संभजनं पूरणं यस्य तत्; तादृशं परम् उत्कृष्टम् अयनं मनोरथः येषां ते इति ; तादृशं यत् परस्य उत्कृष्टस्य आत्मनः अयनं मनोरथः, तत् येषां ते इति वा विग्रहार्थः । अभ्यते इत्यमं संभक्तिः, संभजनं, पूरण- मिति यावत् । अम संभक्तो इत्यतः भावे क्विप् | ईयते प्राप्यते इत्ययनं मनोरथः । इण्धातोः कर्मणि ल्युट् || - श्लो. ३२ (व्या) उपायत्वे इति । उपायत्वेन इति उपाये इत्येव वा विवक्षितम् । उपायप्रकरणे इत्यर्थः । 'मुखमुपाये प्रारम्भे' इति 'द्वारं निर्गमेऽभ्युपाये' इति च हैमकोशात् ॥ श्लो. ३३ (व्या) द्रव्यमयाद्यज्ञादिति मूलस्य तात्पर्य माह- द्रव्ययज्ञात् केवलादिति । केवलद्रव्यमातनिर्वर्थात् यज्ञादित्य, क्षरार्थः ॥
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति