श्रीमडूनवद्गीता गीतार्थसंग्रहोपेता लभन्ते इति । एतच्च तैः प्राप्यं, येषा भेदसंशय रूपौ ग्रन्थी विनष्टौ ॥ २४ ॥ 94 कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । सर्वतो ब्रह्म निर्वाणं वर्तते विदितात्मनाम् ॥ २५ ॥ कामेति । तेषां सर्वतः सर्वास्ववस्थासु ब्रह्मसत्ता पारमा- थिकी, न निरोधकालमपेक्षते ॥ २५ ॥ स्पर्शान कृत्वा बहिषयांवान्तरे अवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २६ ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २७ ॥ स्पर्शानिति । यतेन्द्रियेति । बाह्यस्पर्शान् बहिः कृत्वा, अनङ्गीकृत्य, ध्रुवोः वाम दक्षिणदृष्ट्योः क्रोधरागात्मकयोः अन्तरे तद्रहिते स्थानविशेषे चक्षुरुपलक्षितानि सर्वेन्द्रियाणि [कृत्वा ] विधाय, प्राणापानी धर्माधम चित्तवृत्त्यभ्यन्तरे साम्येनावस्थाप्य आसीत । नसते कौटिल्येन असाम्येन क्रोधादिवशात् व्यव हरति इति नासा चित्तवृत्तिः । एतदेव बाह्ये । एवंविधो योगी सर्वव्यवहारान् वर्तयन्नपि मुक्त एव ॥ २६-२७ ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २८ ॥ ॥ इति श्रीमद्भगवद्गीतायां पञ्चमोऽध्यायः ॥ 1. Komits आसीत
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति