पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता साधुत्वानुपपत्तेः तद्भिया तत्सदस्य अर्श आद्यजन्तत्वं परिकल्प्य संन्यास्यर्थकत्वमंजी कार्यमिति मार्गो स तथा हृदयङ्गम इति सूच्यत इवाचार्येण । प्राङ्नीत्या, प्रागुक्तयुक्तथा ॥ , श्लो. ७-११ (व्या) अकरणप्रतिषेधारूढत्वात् इति । क्रियते अधिक्रियते अनेन इति करणं विधिः; प्रतिषिध्यते अनेनेति प्रतिषेधः; तावारूढः, तयोरधिकृतः अज्ञानी; स व भवतीति अकरण प्रतिषेधारूढः; तस्य भावस्तस्मादित्यर्थोऽभिमत इव भाति । मातृकासु सर्वासु न लिप्यते करणप्रतिषेधारूढत्वादिति वर्तते । तत्न करणेत्यतः पूर्वम् अकारः प्रश्लिष्ट इव । अथ वा च प्रश्लिष्ट: । करणे प्रतिषेधे च धरूढत्वात् अस्थिरत्वात् अनाग्रहात् इत्यर्थः ॥ श्लो. १४ (व्या) नान्येति । घटादिरूपकार्यादिति शेषः । न च सा घटनिष्पादितेति । न चासौ घटनिष्पादयिता इति विव- क्षितमिव । 'अन्यो घटादिरूपकार्यात्' इत्यनुषज्यते ॥ श्लो. १६ (व्या) स्वयमेव करोति इति । एतेवेदं सूचि- तमिव यत् प्रायश आचार्य: प्रकृतगीताश्लोकचतुर्थपादं 'प्रकाश- यति तत् स्वयम्' इति पपाठ इति । परन्तु 'प्रकाशयति तत् परम्' इत्येव सार्वत्तिकः पाठः । अथ वा परमित्यस्यैव स्वय- मित्यर्थ वर्णन मिति वक्तव्यम् । स्वयमेव करोतीत्यस्य स्वपरप्रकाश- कत्वमित्यनेन पूर्वतनेवाप्यन्वयः ||