102 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाइमकांचनः ॥ ८ ॥ ज्ञानेति । ज्ञानम् अभ्रान्ता बुद्धिः । विविधं ज्ञानं यत्न तत् विज्ञानम् प्राग्युक्त्युदितं कर्म ॥ ८ ॥ सुहृन्मित्र | र्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥ सुहृदिति । सुहृत्, यस्य हृदयम् अकारणमेव शोभतम् । मित्रत्वम् अन्योन्यम् । अरित्वं परस्परम् | उदासीन, एतदु- भयरहितः 1, मध्यस्थः केतचिदंशेन पिलं केनचिच्छतुः । द्वेषार्हो द्वेष्टुमशक्यो2 द्वेष्यः । बन्धुः योन्यादिसंबन्धेन । एतेषु सर्वेषु समधीः, एवं साधुषु पापेषु च; स च विशिष्यते क्रमात् क्रम संसारात् तरति ॥ ९ ॥ ईदशैश्व वन्द्यचरणः- इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १० ॥ इहेति । इहैव, सत्यपि शरीरसंबन्धे सर्गो जितः, साम्या- वस्थत्वात् । संसारस्य ह्यबन्धकत्वमेषाम्; 3 साम्ये हि ते प्रति- ष्ठिताः । साम्यं च ब्रह्म ॥ १० ॥ 1. S, N, K (0) एतद्रूपरहितः 2. N द्वेष्टुं शक्यः 3. S, B, K (n) जीवन्मुक्तिरेषां; N जीवन्मुक्तिर्येषां after अबन्धकत्वम् । -
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति