षष्ठोऽध्यायः युञ्जन्नेव सदात्मानं योगी नियतमानसः । सुखेन ब्रह्मसंयोगमत्यन्तमधिगच्छति ॥ २९ ॥ यत इत्यादि अधिगच्छतीत्यन्तम् । यतो यतो मनो नि- वर्तते तन्निवर्तन समनन्तरमेव आत्मनि शमयेत् । अन्यथा अप्र- तिष्ठं चित्तं पुनरपि विषयानेवावलम्बते । तत्र आत्मनि शान्त- चित्तं योगिनं कर्मभूतं सुखं कर्तृभूतम् उपैति । अनेनैव क्रमेण योगिनां सुखेन ब्रह्मावाप्तिः, न तु ऋष्टयोगादिनेति तात्पर्यम् || २७-२९ ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ३० ॥ सर्वेति । सर्वेषु भूतेषु आत्मानं ग्राहकतया अनुप्रविशन्तं भावयेत् । आत्मनि च ग्राह्यताज्ञानद्वारेण सर्वाणि भूतानि एकीकुर्यात् । अतश्च समदर्शनत्वं जायते योगश्चेति संक्षेपार्थः । विस्तरस्तु भेदवादविदारणादिप्रकरणे देवीस्तोत्रविवरणे च मयैव निर्णीत इति तत्रैवावधार्य ३ ॥ ३० ॥ एष एवार्थ: स्पष्टी क्रियते 4- यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३१ ॥ 1. 2. B ज्ञायते 107 K ग्राहकरूपतया 3. S,K तत एवाव - 4. K omits this sentence.
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति