षष्ठोऽध्यायः चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३५ ॥ 109 योऽयमिति । चञ्चलमिति । यः अयम् इति परोक्षप्रत्य- क्षवाचकाभ्यामेवं सूच्यते - भगवदभिहितानन्तरोपायपरम्परया स्पुटमपि प्रत्यक्षनिर्दिष्टमपि ब्रह्म मनसः चाञ्चल्यदौरात्म्यात् सुदूरे वर्तते । इति परोक्षायमाणम् । प्रमथ्नाति दृष्टादृष्ये बलवत् शक्तम् । दृढं, दुष्टव्यापारात्' वारयितुम् अशक्यम् ॥३४-३५॥ अव उत्तरम् श्रीभगवानुवाच - असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।। ३६ || असंशयमिति । वैराग्येण विषयोत्सुकता विनाश्यते । अभ्यासेन मोक्षपक्ष क्रमात् क्रमं विषयीक्रियते इति द्वयोरुपा- दानम् । उक्तं च तत्वभवता भाष्यकृता- 'उभयाधीनश्चित्तवृत्तिनिरोध' इति ।। ३६ ।। अत एषा प्रतिज्ञा- असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽत्राप्तुमुपायतः || ३७ ।। असंयतेति । असंयतात्मनः अविरक्तस्य न कथंचिद्योगावाप्तिः । वश्यात्मनेति, वैराग्यवता । यतमानेनेति, साभ्यासेन । [उपा- यतः] उपायान् अनेकसिद्धान्तादिशास्त्रविहितान् संश्रित्य ||३७|| 1. N. सुदूरीक्रियते 2. N द्रष्टृव्यापारात्
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति